युगादयो विष्णुपुराणे--
"वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे । |
नभस्यो भाद्रपदः ।
मनुः, अनध्यायं प्रकृत्य--
"अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च" इति । |
हारीतः--
"प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः । |
प्रतिपत्स्वित्यादिपूर्वार्धं प्रतिपदादिष्वनध्याय इतिभिन्नार्थविधायकं न तु श्वोऽनध्याय इत्युत्तरार्धेनैकार्थकम् । अन्यथा सूर्योदयोत्तरं किंचित्प्रतिपदनन्तरं द्वितीया । एतादृशे विषये तत्पूर्वरात्रावनध्याये प्राप्त एतन्निषेधस्य वैयर्थ्यापत्तेः । श्वोऽनध्याय इति युगादिमन्वादिप्रयुक्तानध्यायपरम् । तथा च श्व एतादृशानध्याये पूर्वरात्रौ नाधीयीतेत्यर्थः[१] । श्व इत्युदयानन्तरमनध्यायतिथिसत्त्वे । तदनन्तरं स्वाध्यायतिथिसत्त्वे तु न पूर्वशर्वर्यामनध्याय इति शिष्टाः ।
यमः--
"अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी । |
स्वाध्याय इति शेषः।
आर्षे रामायणे रामं प्रति हनूमद्वाक्यम्--
"सा स्वभावेन तन्वङ्गि त्वद्वियोगाद्विकर्शिता । |
स्मृतिरत्नावल्याम्--
"चतुर्दश्यां यदा पर्व प्रागस्ताद्दृश्यते रवेः । |
उक्ततिथीनामहोरात्रानध्यायनियामकपरिमाणं स्मृत्यर्थसारे--
"उदयेऽस्तमये वाऽपि मुहूर्तत्रयगामि यत् । |
- ↑ क. ख. ग. घ.र्थः । यमः ।