केचिदाहुः क्वचिद्दश यावत्तु दिननाडिकाः । |
दिनं चान्द्रं तिथिरिति यावत्[१] । यद्यस्मिन्दिन उदयेऽस्तमये वा मुहुर्तत्रयगा[२]म्यनध्यायदिनं तिथिर्भवेत्त[३]त्तस्मिन्दिने तदहोरात्रमनध्यायमनध्यायरूपमेव विदो बु[४]धा विदुरित्यर्थः । ([५]दिनान्तरे तिथ्यन्तरे ।
"प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी । |
इति वचनं तत्प्राच्याचारमूलकं ज्ञेयम् ।
कालादर्शे स्मृतिः--
"चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्" इति ॥ |
ता आह गार्ग्यः--
"शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये । |
विधुक्षय इत्यत्र बहुव्रीहिः । विधुक्षयः कृष्णपक्षः । आषाढ्युत्तरा कार्तिक्युत्तरा फाल्गुन्युत्तरा चेत्यर्थः ।)
त्रयोदश्यादिप्रदोषे तु नाध्येयमित्यस्मिन्नर्थे पौराणं वाक्यम्--
"मेधाकामस्त्रयोदश्यां सप्तम्यां च विशेषतः । |
न स्मरेदित्यनेनान्यानध्यायेभ्योऽत्र दोषाधिक्यं ध्वन्यते ।
त्रयोदश्यादिद्वैविध्ये निर्णयो ब्रह्माण्डपुराणे--
"रात्रौ यामद्वयादर्वाग्यदि पश्येत्त्रयोदशीम् । |
अर्धरात्रोननाडिकाऽर्धरात्राद्घटिकयैकयोनेत्यर्थः । अनेनेदृशस्थले पूर्वदिन एव प्रदोषप्रयुक्तोऽध्ययननिषेधो न तूत्तररात्रिमुखे सप्तम्यादिसत्त्वेऽपीति नियम्यते[६] ।