पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३५

पुटमेतत् सुपुष्टितम्
[अनध्यायाः]
३३१
संस्काररत्नमाला ।

 बृहन्मनुना प्रकारान्तरेण प्रदोष उक्तः--

"चतुर्थ्यां च त्रयोदश्यां सप्तम्याम[१]र्धरात्रतः ।
अर्वङ्नाध्ययनं कुर्याद्यदीच्छेत्तस्य धार[२]णम् " इति ।

 स्मृत्यर्थसारे विशेषः--

"चतुर्थ्याः पूर्वरात्रे तु नवनाडीषु दर्शने ।
नाध्येयं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ।
अर्धरात्रात्पुरा चेत्स्यान्नाध्येयं पूर्वरात्रके" इति ।

 ज्योतिर्निबन्धे--

"अर्कतर्कत्रितिथिषु दिवसैः स्यात्तदग्रिमैः ।
रात्र्यर्धसार्धप्रहरैः स प्रदोष इति स्मृतः" इति ।

 अग्रिमैरर्कतर्कत्रितिथ्यग्रिमैर्दिनैरित्यर्थः । अर्को द्वादशी । तर्कः षष्ठी । त्रिस्तृतीया । द्वादश्या रात्रौ प्रथमं रात्र्यर्धं यामद्वयात्मकं तन्मध्ये त्रयोदशीसंबन्धश्चेत्तदा प्रदोष इत्यर्थः । एवं षष्ठ्या रात्रौ प्रथमसार्धप्रहरमध्ये सप्तमीसंबन्धे । तथा तृतीयाया रात्रौ प्रथमप्रहरमध्ये चतुर्थीसंबन्ध इति । शिष्टास्त्विदानीमेतदेव स्वी कुर्वन्ति ।।

 गलग्रहेष्वप्यनध्याय उक्तो बृहस्पतिना--

"पुत्रजीवितमिच्छेच्चेन्नाधीयीत गलग्रहे" इति ।

 पुत्रजीवितमिच्छेच्चेदितिवचनात्पुत्रिण एव गलग्रहेष्वनध्यायो नेतरस्येति । गलग्रहास्तूपनयनकालनिरूपण उक्ताः ।

 ज्योतिर्निबन्धे--

"अष्टकासु च सर्वासु युगमन्वन्तरादिषु ।
अनध्यायं प्रकुर्वीत य(त)था सोपपदास्वपि" इति ।

 अयं च[३] सोपपदानिषेधो न यजुर्वेदिनाम्--

"वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्यापनेऽपि च" ।

 इति स्मृत्यन्तरोक्तेरिति केचित् । महानिबन्धेष्वदर्शनादिदं निर्मूलमित्यन्ये । अस्मिन्कल्पे त्वस्त्येव तेषामपि निषेधः । तास्तूपनयनप्रकरण उक्ताः ।

 धर्मसूत्रे--

"श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं
प्रदोषे नाधीयीत" इति ।


  1. क. मध्यरा ।
  2. क. ग. रणाम् ।
  3. क. ख. च नि ।