पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४०

पुटमेतत् सुपुष्टितम्
३३६
[अनध्यायाः]
भट्टगोपीनाथदीक्षितविरचिता--

 स्मृत्यन्तरे--

"न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न सूतके ॥
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते" इति ॥

 अधीयीतेति शेषः ।

 हेमाद्रौ स्मृतिः--

"यज्ञे चानूबन्ध्यान्तं दीक्षितस्यर्त्विजां च" इति ।

 मनुः--

"त्र्यहं न कीर्तयेद्ब्रह्म सपिण्डीकरणे तथा" इति ।

 सपिण्डीकरणे कृते सत्यनन्तरं त्र्यहमनध्याय इत्यर्थः ।

 स्मृतिसंग्रहे--

"उदके मध्यरात्रे च विण्मूत्रे च विसर्जिते ।
उच्छिष्टे श्राद्धभुक्तौ च मनसाऽपि न चिन्तयेत्" इति ।

 स्मृतिसारे--

"सर्वकुत्सितगन्धेषु परिवेषे सभासु च ।
अभ्यङ्गे स्नानकाले च महास्वेदेऽतिकम्पने ॥
गोविप्ररोधने सर्वश्राद्धेषु श्राद्धपङ्क्तिषु ।
श्मशाने शूद्रसंपर्के मलादीनां निदर्शने ॥
रोदने व्याकुले देशे जपस्थाने महालये ।
महोत्पातेषु च तथा स्वाध्यायं वर्जयेद्बुधः" इति ॥

 सर्वश्राद्धेष्वित्यनेन श्राद्धकर्तुरध्ययननिषेधः । श्राद्धपङ्क्तिष्वित्यनेन श्राद्धभोक्तुरध्ययननिषेधः । सप्तमीनिर्देशात्तत्तत्काले ।

 धर्मोद्योते--

"फलान्या(न्य)पस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्यनध्याय इति बौधायनोऽब्रवीत्" इति ॥

 यमः--

"आगतं चातिथिं दृष्ट्वा नाधीयीतैव बुद्धिमान् ।
अभ्यनुज्ञापितस्तस्मिन्नध्येतव्यं प्रयत्नतः" इति ॥

 तस्मिन्नतिथ्यागमनसमयेऽभ्यनुज्ञापितोऽतिथिना ।

 आरण्यमार्जाराद्यन्तरागमने विशेषः स्मृत्यर्थसारे--

 "आरण्यमार्जारसर्पनकुलपञ्चनखादेरन्तरागमने त्रिरात्रम् । आरण्यश्वशृगालवानरादेर्द्वादशरात्रं, खरवराहोष्ट्रचण्डालसूतिकोदक्यादेर्मासम् । शशमेषश्वपाकादेः षण्मासं, गजसारससिंहव्याघ्रमहापातकिकृतघ्नादेरब्दम्" इति ।