पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४२

पुटमेतत् सुपुष्टितम्
३३८
[अनध्यायापवादाः]
भट्टगोपीनाथदीक्षितविरचिता--

 इति हेमाद्युक्तानध्यायप्रकरणस्थस्मृतिवाक्यवशेन कलौ पुरुषान्दुर्मेधसो मन्यमानाः शिष्टा वेदाध्ययन एतानेवानध्यायान्नियमेन स्वी कुर्वन्तीति ।

इत्यनध्यायाः ।

अथानध्यायापवादाः ।

 तत्रेदं धर्मसूत्रम्--

"विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम्" इति ।

 विद्यां प्रति वेदाध्ययनं प्रत्यनध्यायः श्रूयते न पुनः कर्मयोगे मन्त्राणामनध्यायो हेतुरित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 आपस्तम्बीयपरिभाषासूत्रे--

"स्वाध्यायेऽनध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात्" इति ।

मनुः--

वेदो[१]पकरणे चैवं स्वाध्याये चापि नैत्यके ।
निरोधो नास्त्यनध्याये होममन्त्रजपेषु च" इति ।

 वेदो[२]पकरणान्यङ्गानि । जातावेकवचनम् ।

राणे--

"नैत्यके नास्त्यनध्यायः संध्योपासन एव च ।
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥
एष धर्मः समासेन कीर्तितो ब्रह्मचारिणाम् ।
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
अधीयीत सदा सर्वां ब्रह्मविद्यां समाहितः ॥
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत्सततं युक्तो भस्मस्नानपरायणः" इति ।

 सदेत्यनेन पर्वसु प्रतिपत्सु चापि ब्रह्मविद्याया अनध्यायो नेति सूच्यते ।

 स्मृतिरत्नावल्याम्--

"अल्पं जपेदनध्याये पर्वण्यल्पतरं जपेत् ।
नित्ये जपे च तान्त्रे च क्रतौ पारायणे तथा ॥


  1. क. ग. दोपाक ।
  2. क. ग. घ. ङ. दोपाक ।