पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४३

पुटमेतत् सुपुष्टितम्
[काण्डव्रतोपाकरणम्]
३३९
संस्काररत्नमाला ।

नानध्यायोऽस्ति वेदानां ग्रहणे ग्राहणे स्मृतः ।
देवतार्चनमन्त्राणां नानध्यायः स्मृतस्तथा ॥
नानध्याये जपेद्वेदान्रुद्रं चैव विशेषतः ।
पौरुषं पावमानं च गृहीतनियमादृते" इति ।

 यदि मयेदमपठित्वा न भोक्तव्यमिति नियमस्तदाऽध्येयमित्यर्थः ।

 स्मृत्यर्थसारे--

"चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु तु ।
वेदाङ्गन्यायमीमांसा धर्मशास्त्राणि चाभ्यसेत्" इति ।

 धर्मोद्योते--

"सौराणां रौद्रमन्त्राणां पैतृकाणां च नैत्यके ।
जपहोमादिकार्येषु नानध्यायो न कामिके" इति ॥

इति संस्काररत्नमालायां ब्रह्मचारिधर्माध्यापकाध्येतृधर्ममन्दबु-द्धित्वहरविधानानध्यायतदपवादाः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमाला-
यां सप्तमं प्रकरणम् ॥ ७ ॥

अथाष्टमं प्रकरणम् ।

अथ काण्डव्रतोपाकरणम् ।

 "तत्रेदं[१] सूत्रम्--काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिष स्वाहेति काण्डर्षिर्दितीय इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्तात्" इति ।

 अस्यार्थः--नव षट्पञ्च चत्वारि वा काण्डानि, तत्र प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवं स्वायंभुवमारुणम् । सांहितीर्देवता उपनिषदो वारुणीर्देवता उपनिषदो याज्ञिकीर्देवता उपनिषद इति नवपक्षे काण्डानि । षट्पक्ष आरुणान्तानि षट्, पञ्चपक्षे स्वायंभुवान्तानि पञ्च, चतुष्पक्षे वैश्वदेवान्तानि चत्वा[२]रीति । तेषामनुक्रमणं काण्डानुक्रमणिकायां द्रष्टव्यम् । तेषां काण्डानामुपाकरणं


  1. दं धर्मस् ।
  2. ङ. त्वारि । ते ।