पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४४

पुटमेतत् सुपुष्टितम्
३४०
[काण्डव्रतोपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( तत्प्रयोगः )
 

काण्डोपाकरणं तस्मिन्काडोपाकरणे, काण्डव्रतारम्भ इत्यर्थः । काण्डानां विसर्गः काण्डव्रतविसर्ग इत्यर्थः । तस्मिन्प्रसाधनीदेवीहोमान्तं कृत्वा सदसस्पतये हुत्वा काण्डर्षिभ्यो जुहोति । अमन्त्रास्वमुष्मै स्वाहेति यथादेवतमितिवचनात् । प्रजापतये काण्डर्षये स्वाहा । सोमाय काण्डर्षये स्वाहा । अग्नये काण्डर्षये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा । स्वयंभुवे काण्डर्षये स्वाहेति यथाकाण्डं जुहुयात् । ततो वारुण्यादिस्विष्टकृदन्तं यथोक्तमुपहोमाश्च । यथापुरस्तादित्यनेन स्विष्टकृतः पूर्वत्वं होमविधिश्च प्राप्यते । अथवा सदसस्पतिर्द्वितीयः काण्डर्षिर्भवतीत्यर्थः । अस्मि[१]न्कल्पे काण्डर्षिहोमानन्तरं सदसस्पतिहोमः । अत्र द्वितीयवचनं प्रसिद्धस्य काण्ड[२]र्षेः प्राथम्यार्थम् । पूर्वस्मि[३]न्कल्पे द्वितीयवचनं सदसस्पतिरेव काण्डर्षिर्मा भूदित्येतदर्थम् । वारुण्याद्यनुक्रमणमाघारवन्नियमार्थम् । कुत्रचिद्व्याहृतिहोमविधानमेव तथा । यथापुरस्तादिति वचनं जयहोमे राष्ट्रभृद्धोमे च मन्त्रविषये पक्षान्तरस्यापि सत्त्वादुपनयने यः परिगृहीतः पक्षः स एवात्रेति ज्ञापनार्थं स्विष्टकृतः प्राक्कर्तव्यतार्थं च । ननु समावर्तनादावन्यतरानुवादेनैवाऽऽघारवन्नियमे सिद्ध उभयानुवादो व्यर्थ इति चेन्न । तस्य नियमार्थत्वात् । तथा हि । यत्रोभयानुवादः समावर्तनादौ तत्रोभयसहितमेवाऽऽघारवत्तन्त्रं नियतमिति । तेनोभयानुवादातिरिक्तस्थले यद्यदननूदितं भवति तस्यानियमः सिध्यति । काण्डव्रतोपाकरणोत्सर्गयोर्व्याहृतिहोमानुवादाभावान्न व्याहृतिहोमनियमः । चतुर्थीहोमे संवादाभिनयने शूलगवे मासिश्राद्धाष्टकाश्राद्धादावाग्रहायणीकर्मणि च वारुण्याद्यनुवादाभावान्न वारुण्यादिनियमः । त्रिवृदन्नहोमे शास्त्रान्तरोक्तेषु कर्मसु चाऽऽघारवत्तन्त्रत्वपक्षेऽपि व्याहृतिहोमवारुण्याद्यनियम उभयानुवादाभावात् । अथवा यत्र व्याहृतिहोमवारुण्यादिहोमानुवादो नास्ति तत्रैतयोर्निवृत्तिरेव । तेन पू[४]र्वं तन्त्रं प्रसाधनीदेवीहोमान्तमुत्त[५]रं तन्त्रं स्विष्टकृदादीति द्रष्टव्यम् ।

अथ प्रयोगः ।

 आचार्यो ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिणः प्राजापत्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यकाण्डव्रतोपाकरणं करिष्ये । तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च


  1. ङ. स्मिन्पक्षे का ।
  2. ग. घ. ङ. ण्डर्षेयः प्रा ।
  3. ग. घ. ङ. स्मिन्नपि कल्पे ।
  4. क. ख. ग. घ. पूर्वत ।
  5. क. त्तरत ।