पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५

पुटमेतत् सुपुष्टितम्
[कलशधातवः]
३१
संस्काररत्नमाला ।
(पञ्चरत्नपल्लवत्वचः)
 

 दक्षिणकलशचालननिषेधः स्मृत्यन्तरे--

"पुण्याहवाचने चैव यः कुर्यात्कलशार्चनम् ।
दक्षिणस्थः स्थिरश्चैव उत्तरस्थश्चरो भवेत्" इति ।

 वास्तोष्पत इति धारापातात्प्राक्स्थिरता ।

कलशधातवः पञ्चरत्नानि च ।

 कलशाः पञ्चरत्नानि च विष्णुधर्मोत्तरे--

"हैमराजतताम्रा वा मृन्मया लक्षणान्विताः ।
सुवर्णं रजतं मुक्त्वा माणिक्यं च प्रवालकम् ।
पञ्चरत्नमिति ख्यातं समस्तसुरवल्लभम्" इति ।

 पञ्चरत्नाभावे हेम--

"अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्" इत्यादित्यपुराणात् ।

पञ्च पल्लवास्त्वचश्च ।

 पञ्च पल्लवास्त्वचश्च ब्रह्माण्डपुराणं--

"न्यग्रोधपिप्पलप्लक्षजम्बूचूततरूद्भवाः ।
पल्लवाः पञ्च विज्ञेयास्त्वकैतेषामपीष्यते" इति ।

 न्यग्रोधो वटः । पिप्पलोऽश्वत्थः । प्लक्षः पा[१]यरीति भाषया प्रसिद्धः । जम्बूः प्रसिद्धा । चूत आम्रवृक्षः । एतेषां तरूणाम् । भविष्यपुराणे तु जम्बूस्थान उदुम्बर उक्तः ।

सर्वौषधिगणः ।

 सर्वौषध्यश्छन्दोगपरिशिष्टे--

"कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम् ।
सटीचम्पकमुस्ताश्च सर्वौषधिगणः स्मृतः" इति ।

 कुष्ठं कोष्ठमिति भाषया प्रसिद्धम् । मांसी जटामांसी । एका हरिद्रा प्रसिद्धा । द्वितीया दारुहळद इति भाषया प्रसिद्धा । मुरा मोरवेल इति परशुरामक्षेत्रे प्रसिद्धा । शैलेयं शिलारसः । चन्दनं श्वेतचन्दनम् । सटी कचोरः । चम्पकः प्रसिद्धस्तस्य त्वक् । मुस्ता भद्रमोथा ।


  1. ख. पिपरीति ।