पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५२

पुटमेतत् सुपुष्टितम्
३४८
[आरुणकाण्डोपाकरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

द्वयपर्यन्तं वा कुर्यात् । भद्रप्रपाठकाध्ययनसमाप्तावप्युदगयन आपूर्यमाणपक्षस्य पुण्ये नक्षत्र आचार्यं प्राप्याभिवाद्याऽऽरुणकाण्डमधीहि भो इति तं प्रार्थयेत् ।

 तत आचार्यस्तेन सहारण्यं गत्वाऽऽरुणकाण्डव्रतं चरेति तमनुजानीयात् ।

 ततोऽध्येता तमाचार्यमभिवाद्य केशश्मश्रुलोमनखानि वापयित्वा दन्तधावनं कृत्वाऽहते वाससी परिधायाऽऽचम्यारुणाकाण्डर्षीन्स्तर्पयामीति तर्पयेत् । न वा तर्पणम् ।

 तत आचार्यो ब्रह्मचारिसहितः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्या[१]स्यामुकशर्मणो ब्रह्मचारिण आरुणकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमारुणकाण्डव्रतोपाकरणं करिष्ये, तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इति संकल्प्योक्तरीत्या कुर्यात् ।

 अत्र वा वपनं(न) दन्तधावनादितर्पणान्तम् । नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीय[२]दण्डांस्तूष्णीं ब्रह्मचारिणे दत्त्वा पुराणान्यप्सु निक्षिपेदिति केषांचिन्मतेऽत्रापि भवति ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वाऽऽरुणकाण्डव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिमाज्याहुत्या यक्ष्य इति । अरुणान्काण्डर्षीनाज्याहुत्या यक्ष्य इत्युत्कीर्तयेत् । विपरीतं वोत्कीर्तनम् ।

 ततोऽग्निं वायुं सूर्यं ब्रह्माणं प्रजापतिं चन्द्रमसं नक्षत्राणि ऋतून्संवत्सरं वरुणमरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि अन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । सदसस्पतिमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । आरुणकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोगः--

 "ॐ सदसस्पतिम० सिष स्वाहा । सदसस्पतय इदं० । ॐ अरुणेभ्यः काण्डर्षिभ्यः स्वाहा । अरुणेभ्यः काण्डर्षिभ्य इदं०"


  1. क. र्त्यामु ।
  2. घ. दण्डं च तूष्णी ।