पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५४

पुटमेतत् सुपुष्टितम्
३५०
[आरुणकाण्डव्रतोपाकरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 ततो भद्रं कर्णेभिरित्यारभ्य कृत्स्नं काण्डमध्यापयीत ।

 ततस्तूष्णीं मदन्तीरुपस्पृश्य पुनर्भद्रं कर्णेभिरिति शान्तिं कृत्वा, शिवा नः शंतमेत्यस्यारुणा ओषधीरेकपदा गायत्री । ओपध्यालम्भने विनियोगः-- "ॐ शिवा नः शंतमा भ[१]व" इत्योषधीरालभते ।

 सुमृडीकेत्यस्यारुणा भूमिर्द्विपदा गायत्री भूम्यालम्भने विनियोगः-- "ॐ सुमृडीका० शि" इति भूमिमालभते । एतदन्तमन्तेवासिनाऽपि कारयेत् । अत्र वाऽङ्गहोमादितन्त्रसमापनम् ।

 ततोऽन्तेवासिना सह गृहमागत्य तेन भिक्षालब्धेनान्नेन ब्राह्मणभोजनं कारयेत् । एतत्काण्डस्यान्तर्भावपक्षे काण्डर्षिसदसस्पतिहोमौ पृथङ्न स्तः । अग्नये स्वाहेत्याद्या आहुतयः समिदाधानादिकं च वैशेषिकत्वाद्भवत्येव ।

 वस्तुतस्त्वनन्तर्भाव एव युक्तः । "ॐ अरुणाः काण्डऋषयः" इत्येतच्छ्रुतिस्वरसात् ।

 एवमहरहरुल्लेखनादि काण्डर्षिसदसस्पतिहोमवर्जं भूम्यालम्भनान्तं कर्माऽऽसंवत्सराद्वा मासद्वयाद्वा कर्तव्यम् । भद्रप्रपाठकाध्ययने जातेऽपि संवत्सरपर्यन्तं मासद्वयपर्यन्तं वा व्रतं कर्तव्यमेव । स्वीकृतपक्षानुसारेण व्रतं समाप्योत्सर्जनं कुर्यात् ।

 तत्रैतावान्विशेषः । आरुणकाण्डाध्ययनार्थं स्वीकृतस्याऽऽरुणकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्यम् । आरुणकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आरुणकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । काण्डर्षिसदसस्पतिहोमानन्तरमग्न्यादिदेवताभ्यो होमः । उपाकरणे यदि जयादिहोमाः कृताः स्युस्तदाऽत्रापि कार्या एव । आदित्यव्रत० मचारिषं० राधीत्यादित्यमुपतिष्ठते । वायो व्रतपत इति वायुम् । अग्ने व्रतपत इत्यग्निम् । व्रतानां व्रतपत इति व्रतपतिमग्निम् । एतेषामृष्यादि पूर्ववदेव । आचार्याय शिष्यः कंसं क्षौमं कार्पासजं वा वासो धेनुं च दद्यात् । अशक्तावेतदन्यतममेकं दद्यात् । अत्यशक्तावन्यद्धान्यादि वा । स्वाध्याये कर्मण्यारम्भे समाप्तौ च शान्तिं कुर्यान्मध्येऽवस्येच्चेच्छान्तिं कृत्वाऽवस्येत् । पुनः शान्तिं कृत्वोपक्रमेत् । प्रवर्ग्यवदादेश इत्येतदन्तं व्रतं कर्माङ्गं नाध्ययनाङ्गमिति मते प्राजापत्यकाण्डव्रतोपाकरणोत्सर्जनवदुपाकरणोत्सर्जने । केशश्मश्रुलोमनखवापनादिस्नानान्त आरुणकाण्डाध्ययनाधिकारार्थमारुण


  1. घ. ङ. भवन्तु ।