पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६०

पुटमेतत् सुपुष्टितम्
३५६
[ब्रह्मचारिव्रतलोपप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता--
(आपूर्विकतन्त्रेण प्रयोगः)
 

क्रतुः । एकपदा गायत्री छन्दः । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ पाहि नो अग्न एनसे स्वाहा । अग्नय इदं० । ॐ पाहि नो विश्ववेदसे स्वाहा । ॐ विश्ववेदस इदं० । ॐ यज्ञं पाहि विभावसो स्वाहा । विभावसव इदं० । ॐ सर्वं पाहि शतक्रतो स्वाहा । शतक्रतव इदं०"

 पुनरूर्जेति द्वयोरग्निरग्निर्गायत्री । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ पुनरूजा निवर्तस्व० विश्वतः स्वाहा । अग्नय इदं । ॐ सह रय्या निव० स्परि स्वाहा । अग्नय इदं०" ।

 पुनर्व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादिकं स्मृत्वा ताभिराहुतिचतुष्टयं हुत्वा कृच्छ्रत्र[१]यं प्रायश्चित्तमाचरेत् । अशक्तौ गोदानाद्यन्यतमप्रत्याम्नायेन ।

 ततोऽन्वाधानोत्कीर्तनानुसारेण स्विष्टकृदादि वारुणीहोमादि वा होमशेषं समापयेत् । होमशेषं समाप्य वा कृच्छ्रत्रयं कुर्यात् । न त्रिवृदन्नहोमः ।

अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।

 पूर्ववत्संकल्पप्रभृति ताः सर्वाः परिग्रहीष्यामीत्येतदन्तं कृत्वा, प्रधानहोमे--अग्निं वायुं सूर्यमित्याद्येकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तं पूर्ववदुक्त्वा, अन्वाधानसमिधोऽभ्याधायाग्निं परिस्तीर्य यावदुपयुक्तानि पात्राण्यासाद्य पवित्रकरणादि प्रणीतावर्जं पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदित इत्याद्यैः परिषिच्य तूष्णीमेकां समिधमभ्याधाय पूर्ववत्प्रधानाहुतीर्हुत्वा कृच्छ्रत्रयात्मकं प्रायश्चित्तं चरित्वा परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्याद्यैः परिषिच्य ब्राह्मणान्संभोज्य विष्णुं संस्म[२]रेत् । होमशेषसमाप्त्यनन्तरं वा कृच्छ्रत्रयम् ।

 इति बौधायनसूत्रानुसारि ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ।

 देवलस्तु--

"कालातिक्रमणे कुर्यात्प्रायश्चित्तं विधानतः ।
कृच्छ्रं द्वादशरात्रं तु हुत्वा चाऽऽज्याहुतीः शतम् ॥
अष्टाविंशतिरष्टौ वा क्रमात्कुर्याद्व्रतानि हि ।
व्यत्यये यावदभ्यस्तं वेदं तावत्पुनः पठेत्" इत्याह ॥

 अयं च होमो गायत्र्या ।


  1. क. ख. ग. त्रयप्रा ।
  2. क. स्मरेत् ।