पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६१

पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिव्रतलोपप्रायश्चित्तम्]
३५७
संस्काररत्नमाला ।
(अग्निकार्यभिक्षालोपे मधुमांसाशने च प्रायश्चित्तम्)
 

"प्रत्येकं कृच्छ्रमेकैकं चरित्वाऽऽज्याहुतीः शतम् ।
हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनकः" ॥

 इत्याश्वलायनोक्तेः ।

 अत्र प्रायश्चित्ते स्नानसमानकर्तृकत्वश्रवणाद्बटोरेव कर्तृत्वम् । प्रायश्चित्तोत्तरकालमेतानि समावर्तनेन सह कर्तव्यानीति प्रयोगपारिजाते । तत्र मूलं मृग्यम् । एतच्च प्रायश्चित्तं बुद्धिपूर्वविषयम् ।

यत्तु मनूक्तं--

"वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे तु प्रायश्चित्तमभोजनम्" ।

 इति तदबुद्धिपूर्वविषयम् ।

 अग्निकार्यभिक्षालोपविषये स्मृत्यर्थसारे--

"स्नात्वाऽष्टोत्तरसहस्त्रं गायत्रीजपः कार्यः ।

 भिक्षालोपेऽष्टोत्तरशतम्" इत्युक्तम् ।

 एतच्च सकृल्लोपविषयम् । बौधायनोक्तं तु द्व्यादिषष्ठान्तलोपे ।

अत ऊर्ध्वं तु--

"भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः ।
कामावकीर्ण इत्याभ्यां हुत्वा चाऽऽज्याहुतिद्वयम् ॥
उपस्थानं ततः कुर्यात्सं मा सिञ्चन्त्वनेन तु" ।

 इति याज्ञवल्क्योक्तं द्रष्टव्यम् । एतच्च कार्यव्यासङ्गादिनाऽग्न्यादित्यागे ।

 तदभावे तु--

"अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्" इति मनूक्तम् ।

 ब्रह्मचारिणो मधुमांसाशने प्रायश्चित्तमुक्तं शातातपेन--

"ब्रह्मचारी तु योऽश्नीयान्मधु मांसं तथैव च ।
प्राजापत्यं चरेत्कृच्छ्रं मौञ्जीहोमेन शुध्यति" इति ॥

 मौञ्जीहोमः पुनरुपनयनम् ।

 देवलः--

"ब्रह्मचारी यदाऽश्नीयान्मधु मांसमकामतः ।
त्रिरात्रोपोषितः सम्यग्रात्रिमेकां जले वसेत्" इति ॥

अन्यच्च--

"भिक्षाटनमकृत्वा यः सेवकान्नमुपाश्नुते ।
अस्नात्वा चैव यो भुङ्क्ते गाय[१]त्र्यष्टशतं जपेत् ॥


  1. ङ. यत्र्याऽष्ट ।