पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६३

पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ]
३५९
संस्काररत्नमाला ।
( अनुदकमूत्रपूरीषकरणे प्रायश्चित्तम् )
 

 अनुदकमूत्रपुरीषकरणे सुमन्तुः--

"अनुदकमूत्रपुरीषकरणे सद्यः स्नानं
घृतकुशहिरण्योदकपानं च" इति ।

 घृतयुक्तं कुशस्रावितोदकं घृतयुक्तं हिरण्यस्रावितोदकं च पिबेदित्यर्थः ।

 घृतकुशहिरण्योदकपानस्य प्रायश्चित्तार्थत्वाद्भोजननिवृत्तिः ।

"पुरीषमूत्रोत्सर्गं तु कुर्यादनुदकं यदि ।
एकाहं क्षपणं कृत्वा सचैलं स्नानमाचरेत्" ॥

 इति जातूकर्ण्यवचनसंवादादयमर्थो लभ्यते । सचैलं स्नानं कृत्वैकाहं क्षपणं चरेदित्यन्वयः । क्षपणमुपोषणम् । अथवा पानशब्दस्य घृत उदके चान्वयः । तेन घृतप्राशनं पृथक्कर्तव्यं भवति ।

 यत्त्वङ्गिरसोक्तम्--

"अनुदकमूत्रपुरीषकरणे सचैलं स्नानं व्याहृतिहोमश्च" इति ।

 तदकामतो द्रष्टव्यम् ।

मरीचिः--

"ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा ।
गाय[]त्र्यष्टसहस्रेण प्राणायामेन शुध्यति" इति ॥

 सर्वथा जलाभावे वेगस्य च प्राप्तौ वेगधारणं निषेधति मनुः--

"देशं कालं समासाद्य अवस्थामात्मनस्तथा ।
धर्मशौचेऽनुतिष्ठेत न कुर्याद्वेगधारणम्" इति ॥

 धर्मशौचेऽनुतिष्ठेतेत्यत्र प्रकृतिभावाभाव आर्षः ।

अथावकीर्णिप्रायश्चित्तम् ।

 तत्रेदं धर्मसूत्रम्--

"गर्दभेनावकीर्णी निर्ऋतिं पाकयज्ञेन
यजेत तस्य शूद्रः प्राश्नीयात्" इति ।

 यो ब्रह्मचारी स्त्रियमुपेयात्सोऽवकीर्णी गर्दभेन निर्ऋतिं यजेत पाकयज्ञेन स्थालीपाकविधानेन । तस्य गर्दभस्य सर्पिष्मद्धविरुच्छिष्टं शूद्रः प्राश्नीयात् । तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टीत्यस्यापवाद इति व्याख्यातमुज्ज्वलाकृता ।

 वाधूलवैखानसावपि--

"यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमाल-
भेत भूमौ पशुपुरोडाशश्रपणम्" इति ।


  1. ङ. यत्र्याऽष्ट ।