पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६५

पुटमेतत् सुपुष्टितम्
[अवकीर्णिप्रायश्चित्तम्]
३६१
संस्काररत्नमाला ।

लौकिकाग्नाविति वाच्यम् । अवदानैरितिबहुवचनवैयर्थ्यापत्तेः । न चैवं पुरोडाशाङ्गप्रचारावेवाप्स्वास्ताम् । वपायास्तु श्रपणपूर्वभावित्वाल्लौकिकाग्नावेव प्रचार इति वाच्यम् । पशुमालभ्य पुरोडाशं निर्वपतीतिश्रुतिविहितपक्षे वपाप्रचारस्यापि पशुपुरोडाशश्रपणानन्तरभावित्वसंभवात् । वस्तुतस्तु वपाया अवदानशब्देनाग्रहणादग्नावेव होमः । अस्ति चात्र साधकम्, यदि वपा हविरवदानं वा स्कन्देदिति वपायाः पृथग्ग्रहणं क्त्वाप्रत्ययस्वरसश्च । अप्स्विति वचनं प्रकृतिं प्राप्तस्याग्नौ प्रचारस्य बाधनार्थम् । प्रयाजादीनामप्स्वेव प्रचारः प्रधानसदेशत्वादङ्गानाम् । न चावभृथवद्यत्राऽऽपस्तत्र गच्छन्तीतिवचनाभावान्न गमननियमः । तेनोत्तरवेदिस्थानेऽषः संस्थाप्यापि कर्म भवति । तत्रावभृथ इव वेदेध्मादीनामर्थलुप्तानां निवृत्तियथार्थं मन्त्राणामूहश्च द्रष्टव्यः । वपाया अग्नौ प्रचारपक्षेऽपि प्रयाजादीन्यप्स्वेव "विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्" इति जैमिनीयसूत्रात् । "मुख्यत्वाद्भूयस्त्वम्" इत्याचार्योक्तेश्च[१] । तथा च विरोधेऽनेकेषामनुग्रहो न्याय्य[२] इति सिध्यति । पञ्चदशरात्रेऽग्निष्टुत्प्रथममहस्तत्र नाम्नैकाहाग्निष्टुद्धर्मातिदेशादाग्नेयी सुब्रह्मण्या, ततो ज्योतिरादित्र्यह एकाहे ज्योतिरादिचोदकादैन्द्री । साऽवशिष्टैकाद[३]शस्वहःसु द्वादशाहातिदेशादन्द्यैव । तत्रोपसत्कालीनसुब्रह्मण्यायां तन्त्रभूतायामनियमः । मुख्यत्वाद्वाऽग्निष्टुद्धर्मानुग्रह इति प्राप्ते भूयोऽनुग्रहायैन्द्रीति भाष्यकृत् । वार्तिक[४]कारस्तु--"अन्यदेवत्ययाऽन्यदेवतायाः संस्कारासिद्धेर्भेदेनाऽऽह्वान[५]स्यैव युक्तत्वादतो नैतदुदाहरणं किंत्वग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं दधि मधु घृतमापो धाना[६]स्तत्संसृष्टं प्राजापत्यं पशुकाम इति । तत्राऽऽग्नेयस्य धानानां चाऽऽग्नेयविकारत्वादविरोधः । ऐन्द्रस्य दध्न ऐन्द्राग्नसांनाय्यविकारत्वाद्दर्शधर्मत्वम् । मधुघृतापां तूपांशुयाजविकारत्वात्पौर्णमासीधर्मकत्वम् । तत्र सहप्रयोगे वार्त्रघ्नवृधन्वन्मन्त्रयोराज्यभागयोरन्यतरानुष्ठानं मुख्यत्वादै[७]न्द्रदध्नोस्तद्धर्मानुग्रह इति प्राप्ते भूयसां मध्वादीनां वार्त्रघ्नानुग्रहाय तावेव कार्यौ" इत्याह ।

 न च "अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि" इत्येतदधिकरणस्य प्रवृत्तिः, तथा चैक[८]स्य द्यावापृथिवीयैककपालपुरोडाशीयपुष्पितबर्हिषः सर्वोद्देशेन ग्रहणमिवात्र वैपरीत्यमस्त्विति वाच्यम् । एतस्य न्यायस्य परस्पराविरोध एव प्रवृत्तेः, प्रकृते विरोधस्यैव सत्त्वेनैतस्य न्यायस्यासं[९]


४६
 
  1. ग घ. ङ. श्च । वि ।
  2. घ. ङ. न्याय्यः । प ।
  3. ग घ. ङ. दशाहः ।
  4. क. ककृत्तु । अ ।
  5. ग. घ. ङ. नास्येव ।
  6. क. नात्तत्सं ।
  7. क दैन्द्रं द ।
  8. क. कद्या ।
  9. क. स्यानवतारात् । इत्थमयं न्यायः--आ ।