पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६६

पुटमेतत् सुपुष्टितम्
३६२
[अवकीर्णिप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता--

 भवात् । स च न्याय इत्थम्--आग्रयण ऐन्द्राग्नवैश्वदेवद्यावापृथिव्यानि हवींषि । तत्र द्यावापृथिव्ये वैश्वदेविकपर्वगतद्यावापृथिव्यविकारत्वात्पुष्पितं बर्हिः प्राप्तम् । इतरेषां तु बर्हिर्मात्रम् । तत्र मुख्यत्वाद्भूयस्त्वाच्च पुष्पितमेव बर्हिर्ग्राह्यमिति प्राप्ते पुष्पितबर्हिर्ग्रहणेऽप्यन्येषामवैगुण्यादपुष्पितग्रहणे द्यावापृथिव्यस्य वैगुण्यात्पुष्पितस्यैव नियमः । यथा शिष्यस्य कांस्यगुरूच्छिष्टभोजननियमानुरोधेन गुरोः कांस्यभोजननियमे न कश्चिद्विरोध इति सिद्धान्तः । प्रकृते तथात्वाभावान्नात्र कांस्यभोजिन्यायः । अवधिकरणकौ प्रचारौ द्वावग्न्यधिकरणक एक इत्यस्त्यवधिकरणकप्रचारस्यानेकत्वमिति । अथवा वपाप्रचारो नास्त्येवात्र ।

तथा च भरद्वाजः--"यो ब्रह्मचारी स्त्रियमुपेयात्स रौद्रं गर्दभमालभेत तस्यावदानैरप्सु प्रचरन्ति नास्य वपया प्रचरन्ति न पशुपुरोडाशो भवतीडान्तो भवति शंयुवन्तो वा नैर्ऋतः प्राजापत्यो वा" इति ।

 सूत्रकृता निर्ऋतिप्रजापतिरक्षोयमान्यतमदेवताया एव विहितत्वाद्रुद्रदेवता नात्रेष्टा । एवं पशुपुरोडाशनिषेधोऽपि न, भूमावेककपालं पशुपुरोडाशं श्रपयित्वेति तस्य विहितत्वात् । अस्मिन्कर्मणि निर्ऋतिः प्रजापती रक्षांसि यम इत्येतासां देवतानां मध्येऽन्यतमा देवता । प्रायश्चित्तसूत्र आलभेतेतिप्रयोगाद्यागः प्राप्यते । निर्ऋतिदेवतत्वपक्षे धर्मसूत्रे पाकयज्ञस्य विधानात्पाकयज्ञविधिः । प्रायश्चित्तसूत्रविधानात्पशुपक्षोऽपि[१] । प्रजापत्यादिदेवतात्वपक्षे पशुपक्ष एव । अयं च पाकयज्ञविधिर्लौकिकाग्नाववेव । "पाकयज्ञविधौ लौकिकाग्नाववकीर्णिप्रायश्चितम्" इति मानवात् । प्रायश्चित्तसूत्रोक्तरीत्या विध्यनुष्ठानेऽपि त्रील्लोँकिकाग्नीन्संस्थाप्य तेष्वेव यागो न त्वाधानम्, निषादरथकारवदाचार्येणाऽऽधानस्याविधानात् । "अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्त[काल]त्वात्" इति जैमिनिसूत्रात् । "वाऽवकीर्णिनो गर्दभेज्या लौकिके" इति कात्यायनसूत्राच्च यो ब्रह्मचार्यवकिरेत्स गर्दभं पशुमालभेतेति यागोऽपि लोकिक एवाग्नौ । लौकिक इत्येकवचनं जातौ । एकस्मिन्नेवाग्नौ सर्व[२]कार्याणीति केचित् । एतद्यागेन ब्रह्मचर्यभ्रंशसमाधानं विना विवा[३]हो न संभवति । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेदितिवचनात् । कात्यायनसूत्रे वाशब्दः पूर्वपक्षव्यावृत्त्यर्थः । अयं च निशि चतुष्पथे कर्तव्यः "अवकीर्णी तु काणेन" इत्युदाहृतमनुवचनात् । पाकयज्ञप[४]क्षे निश्यनुष्ठानं न यागपक्षे, दिवाकी[५]र्त्यो वषटकार इत्याश्व


  1. ग. घ. ङ. पि । प्राजा ।
  2. क. वाग्निका ।
  3. ग. घ. ङ. वाहासभवात् । अ ।
  4. क. पक्षाने ।
  5. घ. ङ. कीर्त्यौ व ।