पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६७

पुटमेतत् सुपुष्टितम्
[श्वदष्टप्रायश्चित्तम्]
३६३
संस्काररत्नमाला ।

लायनसूत्रे रात्रौ यागनिषेधात् । न चैतदेव निशि कर्तव्यतायाः प्रापकमस्त्विति वाच्यम् । पाकयज्ञविधानेनेत्येतद्विरोधापत्तेः । निर्ऋते रक्षोधिपतित्वात् । निर्ऋतेर्देवतात्वपक्षे चाप्येवमेव । रक्षोदेवतात्वपक्षेऽपि तथा । रक्षसां रात्रिसंचारित्वात् । मनुवचने पाकयज्ञश[१]ब्दे साहचर्याद्यजिधातोः प्रयोगो गौणः[२] । तत्रेति विहाय[३] तस्येतिवचनेन पशुधर्मपक्षेऽपि शूद्रकर्तृकमेव प्राशनमिति बोध्यते । यदि पाकयज्ञतन्त्र एव शूद्रकर्तृकप्राशनमिष्टं भवेत्तदा तत्रेति पाकयज्ञतन्त्रकमेव कर्म निर्दिश्येत । अतः पाशुकतन्त्रपक्षेऽपि शूद्रकर्तृकमेव प्राशनम् ।

 हा[४]रीतेनात्र विशेष उक्तः--

"स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभेन पशुना यजेत पाकयज्ञधर्मेण भूमौ पशुपुरोडाशश्रपणमप्स्ववदानैः प्रचर्य जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिद्रुग्वोऽस्म्यभिद्रुग्धोऽस्मि काम कामाय स्वाहेति" [ इति । ]

 अवदानप्रचारोत्तरमेताभ्यां मन्त्राभ्यां होम उक्तः । कतिधाऽवकीर्णीत्यस्मिन्खण्डे तु, अमावास्यायां रात्रावग्निप्रणयनोपसमाधानपूर्वकं कामावकीर्णोऽस्मि कामाभिद्रुग्धोऽस्मीत्येताभ्यामाज्येनाऽऽहुतिद्वयं तदनन्तरं प्रयताञ्जलेरीषत्तिर्यग्भूतस्य सं मा सिञ्चन्त्वित्यनेन प्रणीताग्नेस्त्रिरभिमन्त्रणं वरदानं चोक्तम् ।

इत्यवकीर्णिप्रायश्चित्तम् ।


अथ श्वदष्टप्रायश्चित्तम् ।

 तत्र पराशरः--

"ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
गृहस्थस्तु द्विरात्रं वाऽप्येकाहं चाग्निहोत्रवान् ॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
स्यादेतत्त्रिगुणं वक्त्रे मस्तके[५] तु चतुर्गुणम्" इति ॥

 एतत्प्रायश्चित्तं नैष्ठिकेन[६] सर्वं द्विगुणं कार्यम् ।

 तथा च हारीतः--

"उपकुर्वंस्तु यः कुर्यात्कामतोऽकामतोऽपि वा ।
तदेव द्विगुणं कुर्याद्ब्रह्मचारी तु नैष्ठिकः" इति ॥


  1. ख. शब्दसा ।
  2. घ. ङ. णः । तिविहायस्ये ।
  3. ग. यस्ये ।
  4. ङ. हारिते ।
  5. क. के च च ।
  6. क. न द्वि ।