पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७७

पुटमेतत् सुपुष्टितम्
[समावर्तनसंस्कारः]
३७३
संस्काररत्नमाला ।
( समावर्तनप्रयोगः )
 

स्थाश्रमाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् ।

 ततः पिता पुत्रसमावर्तनाङ्गभूतं गणपतिपूजनमित्यादिनान्दीश्राद्धान्तं कर्मोक्तरीत्या कुर्यात् । अत्र श्रीः प्रीयतामिति विशेषः । इन्द्रः प्रीयतामिति वा ।

 अथवा नान्दीश्राद्धमात्रं पितृकर्तृकं गणपतिपूजनपुण्याहवाचनमातृकापूजनानि तु स्वयमेव कार्याणि । मातृकापूजनस्य नान्दीश्राद्धाङ्गत्वपक्षे तदपि पितृकर्तृकमेव । पितृसत्त्वेऽपि स्वयमेव[१] वा गणपतिपूजनादि नान्दीश्राद्धान्तं कुर्यादिति केचित् ।

 ततो ब्रह्मचार्येवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा समावर्तनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- जातवेदसमग्निं पलाशसमिधा यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि । पात्रप्रयोगकाले लौकिकाग्नावुष्णीकृता अपः शीता अपः क्षुरमानडुहं शकृद्वपनार्थं कुशमौदुम्बरं प्रादेशमात्रं दन्तधावनार्थमार्द्रं काष्ठं येनकेनचिद्बन्धुजनेनाऽऽनीतं सुरभिद्रव्ययुतं केवलं वा चन्दनं येनकेनचिद्बन्धुजनेनाऽऽनीते अहते[२] वाससी चिह्नकरणेन लक्षितदक्षिणोत्तरभावे येनकेनचिद्बन्धुजनेनाऽऽनीते सूत्रप्रोते कुण्डले सूत्रप्रोतं सुवर्णाभिच्छादितं चान्दनं बादरं वा मणिमादर्शं छत्रं वैणवं दण्डमुपानहौ स्रजं त्रिककुत्संज्ञकपर्वतजातमञ्जनमभावे कज्जलं वेत्येतान्यासाद्य ग्रामप्रवेशार्थं रथाद्यन्यतमं वाहनमपि पात्रसमीपे यथावकाशं वा संस्थाप्य दर्व्यादीनि होमोपयुक्तानि पात्राणि पालाशीं समिधं चाऽऽसादयेत् । पलाशसमिदासादनात्पूर्वं वा ग्रामप्रवेशार्थरथाद्यन्यतमवाहनस्य पात्रसमीपे यथावकाशं वा संस्थापनम् ।

 ततो ब्रह्मवरणादि । पात्रप्रोक्षणकाल उपक्लृप्तस्य रथाद्यन्यतमवाहनस्यापि प्रोक्षणं कार्यम् । ततो दर्वीनिष्टपनादिव्याहृतिहोमान्तं समानम् ।

 ततो वैशेषिकप्रधानहोमः--ॐ इम स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य स सद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा' इत्यासादितां पालाशीं समिधमादधाति । जातवेदसेऽग्नय इदं० । सूत्रकारपठितत्वादत्र स्वाहाकारः । व्यस्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृ


  1. ग. व ग ।
  2. ग. घ. ङ. ते सू ।