पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८

पुटमेतत् सुपुष्टितम्
३४
[पुण्याहवाचनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(गणपतिपूजनम्)
 

पूर्वकं सुमुखश्चैत्यादीन्मङ्गलश्लोकान्पठित्वा देशकालौ संकीर्त्यामुकं कर्म करिष्ये । तदङ्गत्वेन पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इति संकल्पं कुर्यात् । यदा तु प्रयोगाद्बहिर्भूतं पुण्याहवाचनादि तदाऽमुकं कर्म कर्तुमादौ पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इतिसंकल्पपूर्वकं पुण्याहवाचनादि कृत्वा प्रधानसंकल्पं कुर्यात् । वस्तुतस्तु पुण्याहवाचनादीनां संकल्प एतेषां बहिर्भूतत्वकल्प एव नान्तर्भूतत्वकल्प इति युक्तं प्रतिभाति । पुण्याहवाचनादीनां स्वस्वारम्भकाले वा संकल्पः । यथा पुण्याहवाचनारम्भे पुण्याहवाचनं करिष्य इति, मातृकापूजनारम्भे मातृकापूजनं करिष्य इति, नान्दीश्राद्धारम्भे नान्दीश्राद्धं करिष्य इति, मातृकापूजनस्य नान्दीश्राद्धाङ्गत्वं ये स्वी कुर्वन्ति तन्मते तस्य पृथक्संकल्पो न, नान्दीश्राद्धसंकल्पेनैव तत्सिद्धेः । यानि भविष्यदनद्यतनकर्तव्यानि करोति जुहोति यजतीत्येवमादिविहितानि कर्माणि तेषु करिष्ये होष्यामि यक्ष्य इत्यादिशब्दस्थाने कर्ताहे होताहे यष्टाह इत्येवं वा यथायथम् । कर्तृगामिक्रियाफलाभावे तु कर्तास्मि करिष्यामीति प्रयोगः । एवं सर्वत्र । अतीताया रात्रेः पश्चार्धमारभ्याग्रिमरात्रेः पूर्वार्धपर्यन्तं भविष्यदद्यतनं, ततः परं भविष्यदनद्यतनम् । ततस्तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं करिष्य इति संकल्प्य गणानां त्वा विश्वे देवा गणपतिर्जगती, गणपत्यावाहने विनियोगः ॐ गणानां त्वा गण० सीद सादनम् । ऋद्धिसिद्धिसहिताय गणपतये नम ऋद्धिसिद्धिसहितं गणपतिमावाहयामीत्यावाह्य नर्य प्रजामित्यस्याग्निर्नर्योऽनुष्टुप्, प्रतिष्ठापने विनियोगः । नर्य प्रजां० प्रतिष्ठितामिति प्रतिष्ठाप्याऽऽसनादिदक्षिणादानान्तैरुपचारैः संपूज्य पुष्पाञ्जलिं दत्त्वा

मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।

 इति संप्रार्थ्य

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय विकटाय गजाननाय ।
विनायकाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ।

 इति नमस्कुर्यात् । विसर्जनं तु कर्मसमाप्त्यन्त इति शिष्टाः । एवं सर्वत्र ।