- "ॐ इन्द्रस्य त्वा वज्रेणाभ्युपविशामि वह कालं वह श्रियं माऽभिवह हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्तियशसि(सी) हस्तिवर्चसी भूयासम्" । इतिमन्त्रेण हस्त्यारोहणम् ।
यदा गोष्ठे कर्म तदा रात्रिपर्यन्तं तत्रैव स्थित्वा रथाद्यन्यतमं वाहनमारुह्य ग्रामं प्रविशेत् । यदा तु गृहे कर्म तदा रथाद्यन्यतमं यानमारुह्य तदानीमेव यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छेत् । यदि तु गृह एव पूजाकर्ता तदा वाहनारोहणाभावः । सूर्यदर्शनप्रतिषेधो गोष्ठकरणपक्ष एव ।
ततः--
'ॐ स स्रवन्तु दिशो मयि समागच्छन्तु सूनृताः सर्वे कामा |
इति सकृन्मन्त्रमुक्त्वा दिश उपतिष्ठते ।
ततो यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छति । गच्छन्नेत्र वा 'ॐ यशोऽसि यशोऽहं त्वयि भूयासममुकशर्मन्' [ इति ] यः पूजां करिष्यन्भवति तमाभिमुख्येन समीपं गच्छन्यानादवरुह्यानवरुह्य वा सम्यगीक्षते ।
अथ मधुपर्कः ।
पूजकः समावर्तनदिने स्वगृहं प्रत्यागताय स्नातकाय शयनासनादिमदावासस्थानं कल्पयित्वा कृतयानावरोहणं पूज्यं प्राङ्मुखमुपवेश्य नियतसंख्यदर्भमयं कूर्चं प्रकल्प्य पाद्यार्था अपो ह्वसीयसि पात्रे संभृत्य महत्तरेण पात्रेणापिदध्यात् । एवमर्घ्यार्थानामाचम[१]नार्थानां च पृथक्पात्रयोः संभरणमपिधानं च । नात्र कांस्यपात्रनियमः ।
ततो ह्रसीयसि कांस्यपात्रे दध्यानीय मध्वानयति । ततो घृतमिति त्रिवृतं मधुपर्कं कृत्वा म[२]हत्तरेण पिधाय सूत्रेणाऽऽवेष्टयेत् । दधि मधु घृतमापः सक्तव इति पाङ्क्तो वा । अस्मिन्पक्षे दध्यादीनां मिश्रणे नास्ति क्रमः । घृतं त्वन्तत एवाभिघारणरूपत्वात् । पाङ्क्तपक्षेऽपि ह्रसीयस्यानयनं वर्षीयसाऽपिधानं च कृत्वा सूत्रवेष्टनं कार्यम् । त्रिवृत्पाङ्क्तयोरसंभवे मधुसं[३]भवे मधुसंसृष्टो मधुपर्कः । पयो वा मधुसंसृष्टमभाव उदकमितिधर्मसूत्रोक्तप्रकारेण वा प्रकल्पयेत् ।
ततो गां वस्त्रं यज्ञोपवीतद्वयं यथाविभवमाभरणानि माल्यादीनि चोपक