पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८५

पुटमेतत् सुपुष्टितम्
[मधुपर्कप्रयोगः]
३८१
संस्काररत्नमाला ।

रुद्रस्कन्धभाष्यकारोक्तिश्च मू[]लम् । ततः पूजकः--'ओमाचमनीयमिति त्रिः सकृद्वा प्राह । पूज्यः स्वाचमनीयमित्युक्त्वा, अमृतोपस्तरणमसीत्यस्य याज्ञिक्यो देवता उपनिषदो जलं यजुः । आचमने विनियोगः । 'ॐ अमृतोपस्तरणमसि' [ इति ] पूजकदत्तजलार्धेनाऽऽचामति । नात्र शुद्धाचमनम् । पूजकः--ॐ मधुपर्क इति त्रिः सकृद्वा प्राह । पूज्यः--सुमधुपर्क इत्युक्त्वा देवस्य त्वेत्यस्य प्रजापतिः सविता यजुः । मधुपर्कप्रतिग्रहणे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' [ इति ] आकाशवताऽञ्जलिना प्रतिगृह्य 'ॐ पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे' [ इति ] तं भूमौ प्रतिष्ठाप्य 'ॐ यन्मधुनो मधव्यं परममन्नाद्य रूपं तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योऽन्नादो भूयासम्' [ इति ] अङ्गुष्ठेनोप[]मध्यमयोपकनिष्ठिकया चाङ्गुल्या मधुपर्कमालोडयति सकृन्मन्त्रेण द्विस्तृूष्णीम् । 'ॐ तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि' [ इति ] मन्त्रावृत्त्याऽङ्गुष्ठेनोप[]मध्यमयोपकनिष्ठिकया चाङ्गुल्या त्रिर्मधुपर्कं प्राश्नाति । हस्तं प्रक्षाल्य रातय उच्छिष्टं प्रयच्छति । तदभावे सर्वं प्राश्नीयात् । लोकविद्विष्टत्वादिदानीं सर्वस्यैव प्राशनम् ।

 ततोऽमृतापिधानमसीत्यस्य याज्ञिक्यो देवता उपनिषदो जलं यजुः । आचमने विनियोगः । 'ॐ अमृतापिधानमासि' [ इति ] सर्वेण पूर्वाचमनशिष्टजलेनाऽऽचामति । ततो मुखं हस्तं च प्रक्षाल्य स्मार्तमाचमनं लौकिकजलेन । ततः पूजकः--ॐ गौरिति त्रिः सकृद्वा प्राह । पूज्यः--सुगौरित्युक्त्वा 'ॐ गौर्धेनुर्भव्या माता रुद्राणां दुहिता वसूना स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत' इति पठित्वा तामुत्सृजेत् । मन्त्रलिङ्गाद्गौरत्र स्त्र्येव । तस्या हननपक्षे 'ॐ गौरस्यपहतपाप्माऽप पाप्मानं जहि मम चामुष्य च हतं मे द्विषन्तर हतो मे द्विषन्कुरुत' इति पठित्वा परिचारकैः संस्कृतं तन्मांसं भुञ्जीयात् । उत्सर्गपक्षेऽन्येनानिषिद्धेन मांसेन । कलौ गोवधस्य निषिद्धत्वादुत्सर्ग एव कर्तव्यः । अन्यमांसाशनमपि न भवति । तस्यापि कलौ निषिद्धत्वात् । मांसस्थाने माषसहितमन्नं देयम् । पूजको माषसहितमन्नं संस्कृत्य सिद्धेऽन्न ॐ भूतमिति त्रिः सकृद्वा प्राह । पूज्यः-- 'ॐ तत्सुभूतं विराडन्नं तन्मा क्षयि तन्मेऽशीय तन्म ऊर्जं धास्तत्सुभूतम्' इति पठित्वा ब्राह्मणान्भोजयतेति प्रत्याह । तत्र ब्राह्मणाश्चत्वारो नानागोत्राः । 'चतुरो नानागोत्रान्ब्राह्मणान्भोजयतेत्येव ब्रूयात्' इति बौधायनोक्तेः । ततः पूजको ब्राह्मणभुक्तशिष्टमन्नं स्नातकाय ददाति । पूज्यः--'ॐ द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी


  1. ग. घ. ङ. मानम् ।
  2. घ. ङ. पक ।
  3. ग घ. ङ. पक