पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८७

पुटमेतत् सुपुष्टितम्
[मधुपर्कद्वैविध्यम्]
३८३
संस्काररत्नमाला ।
( मधुपर्कयोग्याः )
 

अथ मधुपर्कविषये किंचिदुच्यते ।

 मधुपर्को द्विविधः । गोसहितस्तद्रहितश्च । तत्र गोसहितो वेदाध्याय्याचार्यादीनाम् । तत्रेदं धर्मसूत्रम् 'गोमधुपर्कार्हो वेदाध्याय्याचार्य ऋत्विक्स्नातकः श्वशुरो राजा वा धर्मयुक्तः' इति । गौश्च मधुपर्कश्च गोमधुपर्कौ ताभ्यामर्हो योग्य इत्यर्थः । एतादृशे समासे मधुपर्कान्तर्गतगोरपेक्षयाऽधिका गौर्देया भवति । वेदाध्यायीत्याचार्यादिविशेषणम् । यद्याचार्यादयः कृत्स्नवेदाध्यायिनस्तदैव मधुपर्कादधिका गौर्देया नान्यदेति । एतेन ज्ञायते वेदैकदेशाध्यायिनोऽप्याचार्यादयः स्युस्तेऽपि केवलेन मधुपर्केण पूज्या एवेति ।

 अथवा गवा युक्तो मधुपर्को गोमधुपर्क इत्येवं समासः । मधुपर्कश्चात्र मुख्यवृत्त्या मधुपर्कप्रदानान्तः । अस्मिन्पक्षे मधुपर्कान्तर्गतगोरप्यभावः । अधिकगोदानाभावस्तु सुतराम् । अन्यश्च धर्मसूत्रे विशेषः--'आचार्यायर्त्विजे स्नातकाय श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च' इति । पूर्वोक्तविशेषणविशिष्टानामाचार्यादीनां संवत्सरोत्तरं प्राप्तानामेतेषां गोयुक्तमधुपर्केण पूजा कार्येत्यर्थः । अनेन सूत्रेणावधिप्रदर्शनं क्रियते । विद्यास्नातकविद्याव्रतस्नातकाभ्यामेव गौर्देया न केवलव्रतस्नातकाय । उत्तरसूत्रादिदं ज्ञायते--पूर्वसूत्रे धर्मोपदेष्टृत्वादिधर्मसंपत्तिप्रयुक्तो मधुपर्क इति । तत्र धर्मोपदेष्टुर्मधुपर्क उपनयनोत्तरमृत्विजो वरणोत्तरं स्नातकस्य समावर्तनान्ते श्वशुरस्य देवकोत्थापनान्ते राज्ञोऽभिषेकान्त इति द्रष्टव्यम् । प्रतिनिमित्तं नैमित्तिकमितिन्यायात्, ऋत्विजो वृत्वा मधुपर्कमाहरेदित्याश्वलायनसूत्रात्पुनः पुनर्यज्ञ इति च्छन्दोगसूत्राच्च प्रतियज्ञं संवत्सरोत्तरं देवभूतपितृभूतानामृत्विजां कर्मव्यतिरिक्तकाल उपस्थितिः संभवति न मनुष्यभूतानां कर्मव्यतिरिक्तकाल एतेषामृत्विक्त्वासंभवात् ।

 अन्यानपि मधुपर्कार्हानाह जाबालिः--

"विवाह्यमृत्विजं चैव श्रोत्रियं गृहमागतम् ।
अर्हयेन्मधुपर्केण स्नातकं प्रियमेव च" इति ॥

बौधायनोऽपि--"अथैतेऽर्घ्या ऋत्विक्श्वशुरपितृव्यमातुलाचार्या राजा स्नातकः प्रि[]यागतोऽतिथिरिति संवत्सरं पर्यागतेभ्य एतेभ्य एव कुर्याद्विवाहे वरायाथर्त्विग्भ्यः कर्मणि कर्मणि ददाति" इति ।

 अर्घ्या अर्घ्यार्हा मधुपर्कपूजार्हा इति यावत् । पितृव्यमातुलविवाह्यप्रिया


  1. घ. ङ. प्रियो वरोऽति ।