पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९

पुटमेतत् सुपुष्टितम्
[पुण्याहवाचनप्रयोगः]
३५
संस्काररत्नमाला ।
(कलशस्थापनविधिः)
 

ततः कलशस्थापनम् ।

 मही द्यौरित्यस्य विश्वे देवा भूमिर्गायत्री, भूमिस्पर्शने विनियोगः, ॐ मही द्यौः पृ० भरीमभिः । मन्त्रावृत्त्या दक्षिणत उत्तरतश्च भूमिं स्पृष्ट्वा । ओषधयः समित्यस्याग्निरोषधयोऽनुष्टुप् । स्पृष्टदेशयोरोषधिपुञ्जीकरणे विनियोगः, ॐ ओषधयः सं० पारयामसि । स्पृष्टप्रदेशयोरुपकल्पितप्रस्थधान्यस्य द्वौ पुञ्जौ कृत्वा । आजिघ्रेत्यस्य विश्वे देवा मही शक्वरी, कलशस्थापने विनियोगः, ॐ आजिघ्र कलशं० शताद्रयिः । तयोः पुञ्जयोरुपरि द्वावच्छिद्रौ नूतनौ हेमरजतताम्रान्यतमनिर्मितावभावे मृन्मयौ वा सूत्रवेष्टितकण्ठौ कलशौ निधाय । इमं मे गङ्ग इत्यस्य याज्ञिक्यो देवता उपनिषदो गङ्गादिनद्यो जगती, कलशपूरणे विनियोगः, ॐ इमं मे गङ्गे यमुने० सुषोमया । उपकल्पितकलशोदकाभ्यां तौ पूरयित्वा । गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप्, गन्धप्रक्षेपणे विनियोगः, ॐ गन्धद्वारां ०श्रियम् । तयोर्गन्धं प्रक्षिप्य । या जाता ओषधय इत्यस्याग्निरोषधयोऽनुष्टुप्, ओषधिप्रक्षेपणे विनियोगः। ॐ या जाता ओष० सप्त च । तयोः सर्वौषधीः प्रक्षिप्य । काण्डात्काण्डादित्यस्याग्निर्याज्ञिक्यो देवता उपनिषदो वौषधयोऽनुष्टुप्, दूर्वाप्रक्षेपणे विनियोगः । ॐ काण्डात्काण्डात्प्ररो० शतेन च । तयोर्दूर्वाः प्रक्षिप्य । अश्वत्थे व इत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चत्वक्पञ्चपल्लवयोः प्रक्षेपणे विनियोगः । ॐ अश्वत्थे वो० पूरुषम् । तयोः पूर्वोक्ततरूणां त्वचः पल्लवांश्च मन्त्रावृत्त्या प्रक्षिप्य । याः फलिनीरित्यस्याग्निरोषधयोऽनुष्टुप्, फलप्रक्षेपणे विनियोगः । ॐ याः फलिनी० त्व हसः । तयोः फलं प्रक्षिप्य । अग्नेरेतश्चन्द्रमित्यस्याग्निर्हिरण्यं त्रिष्टुप्, हिरण्यप्रक्षेपणे विनियोगः । ॐ अग्नेरेतश्च० तरेयम् । तयोर्हिरण्यं प्रक्षिप्य । बृहस्पते जुषस्व न इत्यस्य विश्वे देवा बृहस्पतिर्गायत्री, पञ्चरत्नप्रक्षेपणे विनियोगः । ॐ बृहस्पते जुष० दाशुषे । तयोः पञ्च रत्नानि प्रक्षिपेत्, अभावे हेम वा । हेमप्रक्षेपेऽप्ययमेव मन्त्रः । युवा सुवासा इत्यस्य विश्वे देवा यूपस्त्रिष्टुप्, कलशवेष्टने विनियोगः । ॐ युवा सुवासाः० देवयन्तः । वस्त्राभ्यां तौ वेष्टयित्वा । पूर्णा दर्वीत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप्, कलशाननपिधाने विनियोगः । ॐ पूर्णा दर्वि ० शतक्रतो । उपकल्पितकलशोपरि नूतनपात्रस्थतण्डुलैरुपकल्पिते पात्रे पूरयित्वा सतण्डुलाभ्यां पात्राभ्यां कलशयोरानने अपिदध्यात् । सर्वत्र प्रतिकलशं मन्त्रावृत्तिरुत्तरसंस्थता च ज्ञेया । ततस्तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप्, वरुणावाहने विनियोगः । ॐ तत्त्वा यामि ब्रह्मणा० प्रमोषीः । उत्तरकलशे वरुणमावाह्य नर्य प्रजामिति प्रतिष्ठाप्य पूजयेत् ।