पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९७

पुटमेतत् सुपुष्टितम्
[पण्यसिद्धिः]
३९३
संस्काररत्नमाला ।

णानां चूर्णानि कारयित्वा सुप्ताया योनावुपवपेत् । एवं कृते परपुरुषस्य योनिरुपभोग्या न भवति । पुनरागत्य स्वोपभोगयोग्यत्वार्थं बभ्रुमूत्रेण कपिलागोमूत्रेण प्रक्षालयेत् । अनेनोपभोगयोग्या भवति ।

 स्पष्टं चैतदापस्तम्बेनोक्तम्--

"असंभवेप्सुः परेषां स्थूला(ल)ढारिकाजीवचूर्णानि कारयित्वोत्तरया
सुप्तायाः संबाध उपवपेत्सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत" इति ।

 असंभवेप्सुः परपुरुषशुक्रासंभवेप्सुर्जीवचूर्णानि जीवन्तीनां स्थू[१]लढारिकाणां चूर्णान्यन्येन कारयित्वाऽवज्यामिव धन्वनेत्येतया सुप्ताया भार्यायाः संबाधे योनावुपवपेत् । स्वशुक्रसंभवसिद्ध्यर्थे बभ्रुमूत्रेण कपिलागोमूत्रेण प्रक्षालयीतेति व्याख्यातं तद्भाष्ये । अवज्यामित्यापस्तम्बानामेव । स्वसूत्रे मन्त्रस्य सत्त्वात् ।

अथ पण्यसिद्धिः ।

 महर्घविक्रय आशुविक्रयश्च पण्यसिद्धिः । पण्यसिद्ध्यर्थं कर्म करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय लौकिकाग्निस्थापनं तत्र कुर्यात् । औपासने होमक्रियापक्षे नोल्लेखनादिस्थापनान्तं कर्म ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पण्यसिद्ध्यर्थहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामि । यद्वो देवाः प्रपणमिति मन्त्रेण देवान्सोममग्निमिन्द्रं बृहस्पतिमीशानं च सर्वहोमार्हपण्यद्रव्यैकदेशद्रव्याहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भानास्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिः पालाशीं समिधमाज्यं होमद्रव्यं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कुर्यात् । आज्यपर्यग्निकरणकाले होमद्रव्यस्यापि पर्यग्निकरणम् । नात्र सैध्रकी(क)समिदभ्याधानमवचनात् ।

 ततो होमद्रव्यमभिघार्याग्नेः पश्चाद्बर्हिरास्तीर्य तत्र होमद्रव्यमासाद्यादितइत्यादिभिरग्निं परिषिच्य 'ॐ यद्वो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुचमादधात्वग्निरिन्द्रो बृहस्पतिरीशानश्च स्वाहा' इति दर्व्या होमार्हपण्यद्रव्यैकदेशमुद्धृत्य तेनैकामाहुतिं जुहोति । देवेभ्य सोमायाग्नय इन्द्राय बृहस्पतय ईशानाय चेदं० ।


  1. क.ख. स्थलाढा ।