पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९८

पुटमेतत् सुपुष्टितम्
३९४
[क्रोधोपशमनम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संवादाभिजयनम् )
 

 ततः परिस्तरणानि विसृज्य सर्वप्रायश्चित्तं हुत्वाऽदितेऽन्वम स्था इत्यादिभिरग्निं परिषिच्य तं संपूज्य संस्थाजपेनोपस्थाय कर्मेश्वरायार्पयेत् ।

 अथवा यावद्विक्रेतव्यं तावदपादाय विक्रयार्थं जिगमिषुरेतामाहुतिमाज्येन हुत्वा गच्छेत् । अस्मिन्पक्षेऽन्वाधाने सर्वहोमार्हपण्यद्रव्यैकदेशद्रव्याहुत्येत्येतस्य स्थान आज्याहुत्येति वदेत् । पण्यद्रव्यैकदेशद्रव्यस्य नाऽऽसादनपर्यग्निकरणे आज्यहोमपक्ष इति द्रष्टव्यम् । आपूर्विकतन्त्रेण वा प्रयोगोऽत्र । एतच्च वैश्यकर्म । आपदि पण्येन जीवतां विप्राणां क्षत्रियाणां च ।

अथ क्रोधविनयनम् ।

 तच्च बलवतः क्रुध्यतः क्रोधस्योपशमरूपम् । क्रोधविनयनाख्यं कर्म करिष्य इति संकल्प्य, "ॐ या त एषा रराट्या तनूर्मन्योर्मृद्वस्य नाशिनी । तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत एतन्मुखे मत रराटमुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्युं तनोमि ते । अहर्द्यौश्च पृथिवी च विधे क्रोधं नयामसि गर्भमश्वतर्या इव" इति क्रुद्धं बलवन्तं पुरुषमभिमन्त्रयते ।

अथ संवादाभिजयनम् ।

 द्रव्यविषयो ज्ञानविषयो वा विवादः संवादस्तस्याभिजयनम् । अभिभूय प्रतिवादिनमात्मनो जयं य इच्छेत्स एतत्कर्म कुर्यात् । पराजितः पुरुषः प्रत्यासन्ने पराजयकाले कस्यांचिन्निशायां गृहमध्य उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य संवादाभिजयनाख्यं कर्म करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय लौकिकाग्निं तत्र प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादि स्थापनान्तम् ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा संवादाभिजयनहोमकर्मणि या यक्ष्यमाणा देवता इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे, अग्निमवजिह्वेतिमन्त्रेणाऽऽज्याभ्यक्तकरवीरबीजत्रयात्मकद्रव्याहुत्या यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणमित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वाऽन्वाधानसमिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्य ब्रह्मासनं कल्पयित्वाऽऽत्मन्यग्निं गृहीत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमिध्मं बर्हिर्बीजत्रयं चेत्यासाद्य ब्रह्माणं दक्षिणत उपवेश्य पवित्रकरणादि