पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०२

पुटमेतत् सुपुष्टितम्
३९८
[नैमित्तिकानि कर्माणि]
भट्टगोपीनाथदीक्षितविरचिता--
( अशुभस्वप्नदर्शननिमित्तको होमः )
 

प्रतिनिरस्याप उपस्पृश्य, विभूरसीत्यनुवाकमन्त्राणां सोमो मन्त्रोक्ता देवता यजूंषि । एकसृकोपस्थाने विनियोगः ।

"ॐ विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हि सीः १ । ॐ वह्निरसि हव्यवाहनो रौ० २ । ॐ श्वात्रोऽसि प्रचेता रौ० ३ । ॐ तुथोऽसि विश्ववेदा रौ० ४ । ॐ उशिगसि कवी रौ० ५ । ॐ अङ्घारिरसि बंभारी रौ० ६ । ॐ अवस्युरसि दुवस्वान्रौ० ७ । ॐ शुन्ध्यूरसि मार्जालीयो रौ० ८ । ॐ सम्राडसि कृशानू रौ० ९ । ॐ परिषद्योऽसि पवमानो रौ० १० । ॐ प्रतक्वाऽसि नभस्वान्रौ० ११ । ॐ असंमृष्टोऽसि हव्यसूदो रौ० १२ । ॐ ऋतधामाऽसि सुवर्ज्योती रौ० १३ । ॐ ब्रह्मज्योतिरसि सुवर्धामा रौ० १४ । ॐ अजोऽस्येकपाद्रौ० १५ । ॐ अहिरसि बुध्नियो रौ० १६ ।"

 एतैः षोडशभिर्मन्त्रैरेकसृकमुपतिष्ठते । उल्मुकाभावे लुप्यत एतत् ।

 यदीषित इत्यस्य सोम इन्द्राग्नी निचृत्रिष्टुप् । जपे विनियोगः-- "ॐ यदीषितो यदि वा स्वकामी । भयेडको वदति वाचमेकाम् । तामिन्द्राग्नी ब्रह्मणा संविदानौ । शि[१]वां नो रात्रिं कृणुतं गृहेषु" । इति सालावृकीं शब्दं कुर्वाणां प्रति जपति ।

 आरण्यशुनी सालावृकी । जातिमात्रं विवक्षितं न स्त्रीत्वमित्येके ।

 प्रसार्य सक्थ्यावित्यस्य सोमः शकुनिर्गायत्री । जपे विनियोगः--"ॐ प्रसार्य सक्थ्यौ पतसि सव्यमक्षि निपेपि च । मेह कस्य च नाम मत्" इत्यनभिप्रेते शकुनिशब्दे जपति । शकुनिर्वाङ्क्षः ।

 "ॐ हिरण्यपक्षः शकुनिर्देवानां वसतिंगमः । ग्रामं प्रदक्षिणं कृत्वा स्वस्ति नो वद कौशिक" इत्यनभिप्रेते पिङ्गलशब्दे जपति ।

अथाशुभस्वप्नदर्शननिमित्तको होमः ।

 अशुभस्वप्नदर्शननिमित्तं होमं करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकाग्निं प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादिस्थापनान्तं कर्म ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वाऽशुभस्वप्नदर्शननिमित्तहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्निमग्नीन्वैश्वानरं दिवं चैकैकयाऽऽज्यमिश्रिततिलाहुत्या


  1. ङ. शिवामस्मभ्यं कृ ।