पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०३

पुटमेतत् सुपुष्टितम्
[नैमित्तिकानि कर्माणि]
३९९
संस्काररत्नमाला ।
(अशुभस्वप्नदर्शननिमित्तको होमः)
 

यक्ष्ये । एता देवता सद्यो यक्ष्य इत्युक्त्वा समिधोऽभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं तिलांश्चाऽऽसादयेत् । हस्तेन होमपक्षे न दार्व्यासादनम् ।

 ततः पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कुर्यात् । आज्यपर्यग्निकरणकाले तिलानामपि पर्यग्निकरणम् । हस्तेन होमपक्षे दर्वीस्थाने दक्षिणं हस्तं सव्येनाऽऽज्यस्थालीं च सहैव निधाय प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं तिलांश्च दक्षिणहस्तेनैवाऽऽसादयेत् । सव्यहस्तेन कर्तुमशक्यत्वात् । पवित्रकरणादि पात्रप्रोक्षणान्तं कर्म दक्षिणहस्तेनैव । तत्राऽऽदौ दर्वीस्थले दक्षिणहस्तमुत्तानं निधाय सपवित्रेण सव्यहस्तेनान्येनाऽऽनीताभिः प्रोक्षणीपात्रस्थाभिरद्भिर्दक्षिणं हस्तं त्रिः प्रोक्ष्य सपवित्रेण दक्षिणहस्तेनाऽऽज्यस्थाल्यादिप्रोक्षणम् ।

 ततः सव्यहस्ते संमार्गदर्भान्गृहीत्वा दक्षिणं हस्तं संमार्गदर्भांश्च सहैव निष्टप्य सव्यहस्तेन जुहूवद्दर्भैर्दक्षिणं हस्तं संमृज्य पुनर्निष्टप्याग्नेः पश्चाद्दक्षिणं हस्तं संस्थाप्यैतेनैव संमार्गदर्भानग्नौ प्रहरति ।

 तत आज्यविलापनादि पवित्रे अग्नावाधायेत्यन्तं दक्षिणहस्तेनैव कृत्वा तिलान्संस्कृताज्येनाभ्यज्याग्नेः पश्चाद्बर्हिरास्तीर्य तत्र तिलान्निधायाग्निं परिषिच्य तूष्णीमेकां समिधमभ्याधाय दर्व्या घृताक्तांस्तिलान्सकृदुपहत्य,

 पुनर्मामैत्विन्द्रियमित्यस्यारुणा अग्निरनुष्टुप् । अशुभस्वप्नदर्शननिमित्तकहोमे विनियोगः । "ॐ पुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा पुनर्द्रविणमैतु मा स्वाहा" अग्नय इदं० । "ॐ अथैते धिष्णियासो अग्नयो यथास्थानं कल्पन्तामिहैव स्वाहा" । अग्निभ्य इदं न मम । "ॐ पुनर्म आत्मा पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठतु मे मनोऽमृतस्य केतुः स्वाहा" वैश्वानरायेदं न मम । "ॐ यदन्नमद्यते सायं न प्रातरवति क्षुधः । सर्वं तदस्मान्मा हि सीर्न हि तद्ददृशे दिवा स्वाहा" दिव इदं न मम । इत्येतैर्मन्त्रैस्तिलैश्चतस्र आहुतीर्जुहुयात् । हस्तेन वा होमः ।

 ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कृत्वा विष्णुं संस्मरेत् । आघारवत्तन्त्रेण वा होमोऽयम् । अत्र व्याहृतिहोमवारुणीहोमादि वैकल्पिकम् । न त्रिवृदन्नहोमः । अन्यत्समानम् ।

 अद्या नो देव सवितर्विश्वानि देव सवितरितिद्वाभ्यां सूर्योपस्थानमपि कार्यं