बौधायनोक्तेः । अनयोर्विश्वे देवा ऋषयः । सूर्यो देवता । गायत्री छन्दः । सूर्योपस्थाने विनियोगः । इत्यृष्यादि द्रष्टव्यम् ।
अथाद्भुतप्रायश्चित्तानि ।
- तत्र सूत्रम्--
- "कुप्त्वा कपोत उपाविक्षन्मध्वगार उपाविक्षद्गौर्गां धयेत्स्थूणा व्यरौक्षीद्वल्मीक उदैक्षीदित्येवंरूपाणि" इति ।
कुप्त्वा कोपं कृत्वा । कपोत आरण्यपारावतः। उपाविक्षदध्यासितवानगार इति शेषः । मधुकरीभिर्मक्षिकाभिः क्रियमाणं मधु अगार उपाविक्षदुपविष्टमभवत् । गौर्वत्सादन्या गामधैषीत्पीतवती । स्थूणा व्यरौक्षीगृहोपरि रूढवती । वल्मीक उदैक्षीद्गृह उद्भूतमभवत् । इत्येवंरूपाणि, एवंप्रकाराण्यद्भुतानि । एतान्यन्यानि च यस्य गृहे भवन्ति स वक्ष्यमाणं कर्म कुर्यादित्यर्थः ।
कर्ता पूर्वाह्णे स्नातः शुद्धवस्त्रोहः क्षान्तो ब्राह्मणेनैव संभाषमाणो गृहमध्य उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममागारे कपोतप्रवेशसूचिता[१]रिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्य इति संकल्प्य गृहमध्य एवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र वरदनामानं लौकिकाग्निं प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादिप्रतिष्ठापनान्तम् ।
ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा कपोतप्रवेशसूचितारिष्टपरिहारार्थे होमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि व्याहृतिहोमान्तं कृत्वा वारुणीहोमादि पूर्णपात्रदानान्तं कुर्यात् । अत्रैके जयाभ्यातानानित्यस्मिन्सूत्रेऽत्रेतिवचनमेवंरूपेषु महत्स्वद्भुतेष्वेव यथा स्युर्नाद्भुतेष्वल्पेष्वित्येतदर्थम् ।
ततस्त्रिदन्नहोमं पुण्याहवाचनान्तं कुर्यात् । ममागारे मधूपवेशनसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्ये । वत्सव्यतिरिक्तगोकृतगोस्तनपानसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्ये । मम गृहे वल्मीकोद्भूतिसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्य इति तत्तन्निमित्तानुसारेण संकल्पाः कार्याः ।
गौर्गां धयेदित्येतस्मिन्नद्भुते विशेषः । "ॐ इद्राग्नी वः प्रस्थापयतामश्विनावभिरक्षताम् । बृहस्पतिर्वो गोपालः पूषा वः पुनरुदाजतु" इति गाः प्रतिष्ठमाना अनुमन्त्रयते ।
पूषा गा इत्यस्य विश्वे देवाः पूषा गायत्री । गवानुमन्त्रणे विनियोगः ।
- ↑ क. तानिष्ट ।