पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०६

पुटमेतत् सुपुष्टितम्
४०२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--

 तत इमं मे वरुणेत्यादि । आज्येनैव स्विष्टकृत् । अथ(आज्य)शब्दाभावात्पयसेति केचित् । पूर्णपात्रदानान्तं समानम् । नात्र त्रिवृदन्नहोमः ।

 ततोऽग्निं संपूज्य ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । पूर्वं कर्म गौर्गां धयेदित्येतदद्भुतसूचितस्य गोस्वामिनोऽरिष्टस्य परिहाराय । इदं तु तत्सूचितगवानिष्टपरिहाराय विधीयते ।

 यदि द्वावेव गावौ तदा मन्त्रेषूहः । इन्द्राग्नी वां बृहस्पतिर्वां गोपालः पूषा वां पुनरुदाजतु । पूषा गावौ । इमे ये गावावगमतामयक्ष्मे बहुसूवर्यौ स स्थे स्थः स स्थे वां भूयास्थोऽच्युते स्थो मा मा च्योषाथां माऽहं भगवतीभ्यां च्यौषीः । ऊर्जा वां पश्याम्षूर्जा मा पश्यतं० सहस्रपोषं वां पुष्यासमित्येवमूहः ।

 अथवा बहुवचनान्ता एव मन्त्राः पूजार्थत्वात् । अत्रात्रग्रहणं बहूनां गवामनिष्टपरिहारार्थे होम एव जयादयः स्युर्न गोद्वयानिष्टपरिहारार्थ इत्येतदर्थम् ।

इति संस्काररत्नमालायां काम्यविध्यादि ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायामेकादशं प्रकरणम् ॥ ११ ॥

अथ द्वादश प्रकरणम् ।

अथ विवाहः ।

 तत्रेदं गृह्यम्--

"समावृत्त आचार्यकुलान्मातापितरौ बिभृयात्ताभ्यामनुज्ञातो भार्या-
मुपयच्छेत्सजातां नग्निकां ब्रह्मचारिणीमसगोत्राम्" इति ।

 उपनयनप्रभृति ब्रह्मचार्याचार्याधीनः सन्कृतविद्य आचार्यकुलात्समावृत्तः स्नातक इत्यर्थः । स मातापितरौ शुश्रूषयन्धान्याहरणादिना बिभृयात्पोषयेत् । मातापित्रधीनः स्यादित्यर्थः । स्नात इत्येतावत्येव वक्तव्ये समावृत्त आचार्यकुलादितिवचनं स्नातस्यापि विद्याया भूयःश्रुतार्थं पुनराचार्यकुल एव