पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०८

पुटमेतत् सुपुष्टितम्
४०४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता-
( प्रजोत्पादनस्याऽऽवश्यकता )
 

द्याऽऽत्मानमेवोत्पादयेदिति विज्ञायते चाऽऽत्मा वै पुत्रनामाऽसीत्येवं द्वितीय आत्मा जीवता द्रष्टव्यो यः पुत्रमुत्पादयति स तथा भवति तस्मान्नाऽऽत्मा क्वचिदक्षेत्रे समुत्स्रष्टव्य आत्मानमवमन्यते हि यथाऽऽत्मानमुत्पादयति स तथा भवति तस्मादादित एव क्षेत्रमन्विच्छेत्सवर्णं संस्कृतमुपदेशेन तस्मिन्दारे संयोगेन प्रजामुत्पादयेदौषधमन्त्रसंयोगेन च तस्योपदेशेन श्रुतिः सामान्येनोपदृश्यते सर्ववर्णेभ्यः फलवत्त्वात्" इति ।

 प्रजेति समाख्याऽभिधा प्रजनननिर्वृत्ता प्रजननेनैव निर्वृत्ता निष्पादिता । प्रजाया इति षष्ठ्यन्तमध्याहार्यम् । प्रजाया एवेदं हेतुगर्भं विशेषणम् । यतः प्रजा पुत्रादिरूपा प्रजननेनैव निष्पादिताऽत एव प्रजेति । प्रजायाः प्रजननसंबन्धं विनोत्पत्तेरभावात्तस्य च क्षेत्रं विना सर्वथैवासंभवादवश्यं विवाहः कर्तव्य इति फलितोऽर्थः । युक्तो विहितकाल एवोपगमनेन । जितेन्द्रिय इत्यनेन ऋतुकालिकासु रात्रिषु प्रतिरात्र्यनेकवारं गमनं व्यावर्त्यते परस्त्रीगमनं च । जन्मत उत्पत्तेरारभ्य तानि ऋणानि विमुच्य दूरीकृत्य । विमुक्तोऽधर्मसंचयादित्यत्राधर्मसंचयादिति पदच्छेदः । ऋणापाकरणे कृतेऽधर्मसमुदायाद्विमुक्तो भवति । तत आत्मवानात्मस्वरूपलाभवान्भवतीत्यर्थः । पूज्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । स्वाध्यायेन स्वाध्यायोऽध्ययनं तत्साधनेन ब्रह्मचर्येणेत्यर्थः । सोमेन सोमद्रव्यवता यागेन । पुरंदरशब्दस्तत्तत्कर्मसंबन्धिदेवतोपलक्षकः । पुरंदर इन्द्रः । इन्द्रस्य भूयिष्ठभाक्त्वेन देवताधिपतित्वेन च मुख्यत्वाद्ग्रहणम् । पितॄन्सर्वानित्यत्र सर्वग्रहणं[१] देवपितॄणामपि ग्रहणार्थम् । एतेषां पूजनेनैतैः कर्मभिः संतर्पणेनानृणः सन्दिवि स्वर्गे मोदते हर्षयुक्तो भवति । लोकान्देवलोकान् । नाकः स्वर्गः । एतैस्त्रिभिः कर्मभिर्ऋणत्रयापाकरणं भवतीत्यत्र श्रुतिं दर्शयति-- विज्ञायते च जायमानो वा इत्यादिना । एवमेवंप्रकारेणानृणसंयोगमनृणसंयोगत्वं, नान्य उपाय ऋणत्रयापाकरणेऽस्तीति वेद एष वा अनृण इत्यादिरूपो दर्शयति बोधयति । बन्धनमृणमोक्षमित्येतत्पूर्वं स्वस्येति शेषः । ऋणानपाकरणं बन्धनम् । ऋणमोक्षमृणापाकरणम् । एतद्द्वयं प्रजाया आयत्तं प्रजाया अधीनम् । प्रजायां सत्यामृणमोक्षस्तस्यामसत्यां बन्धनमित्येतत्प्रजाया अधीनमिति तदर्थः । प्रजाया इत्येतदनन्तरभूतश्चशशब्दोऽवधारणार्थः । पितॄणां च पितॄणामपि । अनपाकृतर्णानां पितॄणामपि बन्धनमोक्षौ प्रजाया आयत्तौ भवत इत्यर्थः । प्रजायाश्चाऽऽयत्तमित्यनेन प्रजो


  1. क. णं दैव ।