पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१

पुटमेतत् सुपुष्टितम्
[पुण्याहवाचनप्रयोगः]
३७
संस्काररत्नमाला ।

आप उन्दन्तु० वर्चसे । यस्त्वा हृदा० अमृतत्वमश्याम् । यस्मै त्व सुकृते शते स्वस्ति । सन्त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च । इति मन्त्रानुक्त्वा व्रतनियमतपःस्वाध्यायक्रतुदमदानविशिष्टानां ब्राह्मणानां मनः समाधीयतामिति विप्रान्प्रार्थयेत् । विप्राः समाहितमनसः स्म इति । कर्ता प्रसीदन्तु भवन्त इति वदेत् । विप्राः प्रसन्नाः स्म इति ।

 ततः कर्ता--शान्तिरस्तु १ पुष्टिरस्तु २ तुष्टिरस्तु ३ वृद्धिरस्तु ४ अविघ्नमस्तु ५ आयुष्यमस्तु ६ आरोग्यमस्तु ७ शिवं कर्मास्तु ८ कर्मसमृद्धिरस्तु ९ धर्मसमृद्धिरस्तु १० वेदसमृद्धिरस्तु ११ शास्त्रसमृद्धिरस्तु १२ पुत्रसमृद्धिरस्तु १३ धनधान्यसमृद्धिरस्तु १४ इष्टसंपदस्तु १५ अरिष्टनिरसनमस्तु १६ यत्पापं तत्प्रतिहतमस्तु १७ यच्छ्रेयस्तदस्तु १८ उत्तरे कर्मण्यविघ्नमस्तु १९ उत्तरोत्तरमहरहरभिवृद्धिरस्तु २० उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् २१ तिथिकरणमुहूर्तनक्षत्रसंपदस्तु २२ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् २३ तिथिकरणे मुहूर्तनक्षत्रे सग्रहे सदैवते प्रीयेताम् २४ दुर्गापाञ्चाल्यौ प्रीयेताम् २५ अग्निपुरोगा विश्वे देवाः प्रीयन्ताम् २६ इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् २७ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् २८ विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् २९ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् ३० वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् ३१ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् ३२ ऋषयश्छदांस्याचार्या देवा वेदा यज्ञाश्च प्रीयन्ताम् ३३ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् ६४ श्रीसरस्वत्यौ प्रीयेताम् ३५ श्रद्धामेधे प्रीयेताम् ३६ भगवती कात्यायनी प्रीयताम् ३७ भगवती माहेश्वरी प्रीयताम् ३८ भगवती पुष्टिकरी प्रीयताम् ३९ भगवती तुष्टिकरी प्रीयताम् ४० भगवती ऋद्धिकरी प्रीयताम् ४१ भगवती वृद्धिकरी प्रीयताम् ४२ भगवन्तौ विघ्नविनायकौ प्रीयेताम् ४३ भगवान्स्वामी महादेवो महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् ४४ हरिहरहिरण्यगर्भाः प्रीयन्ताम् ४५ सर्वा ग्रामदेवताः प्रीयन्ताम् ४६ सर्वाः कुलदेवताः प्रीयन्ताम् ४७ सर्वा इष्टदेवताः प्रीयन्ताम् ४८ हता ब्रह्मद्विषः ४९ हताः परिपन्थिनः ५० हता अस्य कर्मणो विघ्नकर्तारः ५१ शत्रवः पराभवं यान्तु ५२ शाम्यन्तु घोराणि ५३ शाम्यन्तु पापानि ५४ शाम्यन्त्वीतयः ५५ शुभानि वर्धन्ताम् ५६ शिवा आपः सन्तु ५७ शिवा ऋतवः सन्तु ५८ शिवा अग्नयः सन्तु ५९ शिवा आहुतयः सन्तु ६० शिवा ओषधयः सन्तु ६१ शिवा वनस्पतयः सन्तु ६२ शिवा अतिथयः सन्तु ६३