पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१०

पुटमेतत् सुपुष्टितम्
४०६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(परिणेयालक्षणम्, सापिण्ड्यलक्षणम्)
 

इत्यादिश्रुतिः सामान्येन समानानां भावः सामान्यं साधर्म्यं वेदाध्ययनवत्त्वरूपं तेन हेतुना सर्ववर्णेभ्यः सर्ववर्णार्था दृश्यते । "ब्राह्मणः क्षत्रियो वैश्यो वाऽपाकुर्यादृणत्रयम्" इत्यादिस्मृतिष्विति शेषः ।

 यद्यपि जायमान इति श्रुतिर्ब्राह्मणत्व[१]पुरस्कारे[२]णैव दृश्यते तथाऽपि[३] वेदाध्ययनवत्त्वरूपसाधर्म्यमादाय सर्वव[४]र्णेभ्यो भवति । सर्वेषां फलवत्त्वात्फलेच्छावत्त्वात् । अथवा जायमान इति श्रुतिः केवलं सामान्ये ब्राह्मणत्वजातिमात्रसामान्ये नोपदृश्यते नैव प्रवर्तते । किंतु ब्रह्म वेदस्तदध्ययनवत्सु त्रिषु । कुतः सर्ववर्णेभ्यः फलेच्छावत्त्वादिति ।

 का परिणेयेत्याकाङ्क्षायामाह याज्ञवल्क्यः--

"अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्" इति ।

 लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् । तान्यग्रे वक्ष्यन्ते । या दानेनोपभोगेन वा पुरुषान्तरपूर्विका न भवति साऽनन्यपूर्विका । अपुनर्भूरिति यावत् । मनोदत्ता वाचा दत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्त पुनर्भ्वः । तत्राऽऽद्यानां तिसृणामन्येन परिणयनं भवतीत्यग्रे वक्ष्यते । कान्तां वरस्य चक्षुर्मनसोरानन्दकारिणीम् । असपिण्डां सापिण्ड्यरहिताम् । तत्र चन्द्रिकापरार्कमेधातिथिमाधवप्रभृतयः-- 'एकस्यां पिण्डदानक्रियायां दातृत्वपिडभाक्त्वलेपभाक्त्वान्यतरसंबन्धेनान्वयः सापिण्ड्यम्' इत्याहुः ।

 तत्र मत्स्यपुराणम्--

"लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस्त्वेषां सापिण्ड्यं साप्तपौरुषम्" इति ॥

 मार्कण्डेयवचनमपि--

"पिता पितामहश्चैव तथैव प्रपितामहः ।
पिण्डसंबन्धिनस्त्वेते विज्ञेयाः पुरुषास्त्रयः ॥
लेपसंबन्धिनश्चान्ये पितामहपितामहात् ।
प्रभृत्युक्तास्त्रयस्तेषां यजमानस्तु सप्तमः ॥
इत्येष मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः" इति ।



  1. क. त्वसामान्येन दृ ।
  2. ग. घ. रेण सामान्येन दृ ।
  3. क. पि स ।
  4. दृ. वर्णार्था भ ।