पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४११

पुटमेतत् सुपुष्टितम्
[विवाहः]
४०७
संस्काररत्नमाला
(सापिण्ड्यनिर्णयः)
 

 अयमर्थः-- सप्तानां पुरुषाणामेकपिण्डक्रियानुप्रवेशः सापिण्ड्ये हेतुः । तथा चैकस्य देवदत्तस्य स्वकीयैः पित्रादिभिः षड्भिः पुत्रादिभिः षड्भिश्च सह सापिण्ड्यम् ।

 नन्वेवं भ्रातृपितृव्यमातुलभागिनेयादिभिस्तद्भार्यादिभिश्च सह सापिण्ड्यं न स्यादिति चेत् । न । उद्देश्यदेवतैक्येन क्रियैक्यस्यात्र विवक्षितत्वात् । तथा च देवदत्तकर्तृकपिण्डक्रियायां ये देवतात्वेनानुप्रविशन्ति तेषां मध्ये यः कोऽपि भ्रातृपितृव्यमातुलादिकर्तृकपिण्डक्रियायामप्यनुप्रविशतीत्यस्ति तैः सह सापिण्ड्यम् । भार्याणामपि भर्तृकर्तृकपिण्डदानक्रियायां सहाधिकारित्वात्सापिण्ड्यसिद्धिः।

 ननु सहाधिकारसिद्धाविदं स्यात्तत्रैव किं मानमिति चेत् । न । पाणिग्रहणादि सहत्वं कर्मसु तथा पुण्यफलेषु चेति धर्मसूत्रवचनेन,

“तस्मात्साधारणो धर्मः श्रुतौ सर्वः सहोदितः "।

 इति मनुवचनेनोद्वाहकाल एवानयोर्वचनेन द्रव्यसाधारण्यं प्रतिपादितम् । धर्मे चार्थे च कामे च नातिचरितव्येत्यनेन न ह्युभयसाधारणमेकेन त्यक्तुं शक्यते । तस्माद्द्रव्यसाधारण्यान्न भर्त्रा सह विभजेदिति विभागप्रतिषेधान्नास्ति भिन्नयोः कर्तृत्वमिति तत्ररत्नेन, सहत्वं कर्मस्विति सहग्रहणं न बलीवर्दवत्समानाधिकार इतिप्रदर्शनार्थम् । ततश्च भर्त्राऽसौ वक्तव्याऽहं दानादि वर्तयामि त्वमपि संकल्पं कुर्विति तयाऽपि तथैव कर्तव्यमन्यथा दोष इत्यपरार्केण, स्मृतिचन्द्रिकाहेमाद्रिमाधवादिभिश्च सहाधिकारस्य सिद्धान्तितत्वात् । न चैवमपि भगिनीपितृष्वस्रादिभिर्न स्यादिति शङ्क्यम् । अविभक्तभ्रातॄणां ज्येष्ठस्यैव कर्तृत्वेन कनिष्ठानां सापिण्ड्यसिद्ध्यर्थं योग्यताया इवात्रापि शरणीकर्तव्यत्वात् ।

  ननु--"यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम्" ।

 इतिवचनसिद्धगयाश्राद्धदेवतात्ववतां मित्रादीनाम्,

  तथा--"सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थतः" ।

 इतिमार्कण्डेयपुराणाद्राज्ञोऽपि श्राद्धकर्तृत्वेन सापिण्ड्यापत्तिरिति चेत्सत्यम् ।

 'सप्तमात्पञ्चमादूर्ध्वं पितृतो मातृतस्तथा' इत्यादिवचनानुरोधेन पित्रादिसंबन्धिषु केषुचिदेव सपिण्डशब्दस्य योगरूढ्यङ्गीकारेणाऽऽपत्त्यभावात् । विज्ञानेश्वरमदनपारिजातकारप्रभृतयस्तु-- एकशरीरावयवान्वयरूपं सापिण्ड्यमाहुः । भवन्ति हि एकस्य पितुरेकस्या मातुर्वा शरीरस्यावयवाः पुत्रपौत्रादिषु साक्षा