पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१४

पुटमेतत् सुपुष्टितम्
४१०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(सापिण्ड्यनिर्णयः)
 

"दशभिः पुरुषैः ख्याताच्छ्रोत्रियाणां महाकुलात् ।
उद्वहेत्सप्तमादूर्ध्वं तदभावे तु सप्तमीम् ।
पञ्चमीं तदभावे तु पितुः पक्षे त्वयं विधिः ॥
सप्तमीं च तथा षष्ठीं पञ्चमीं च तथैव ।
एवमुद्वाहयेत्कन्यां न दोषः शाकटायनः ।
तृतीयां वा चतुर्थीं वा पक्षयोरुभयोरपि ।
विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः" ॥

 इति चतुर्विंशतिमते दशपुरुषविख्यातश्रोत्रियकुलविषय एव सप्तम्यादीनामप्युद्वाह्यत्वोक्तेस्तत्पराण्येतानि वचनान्यत्यन्तापद्विषयाणि वेति ज्ञेयम् ।

 संबन्धविवेके शूलपाणिः--

"पञ्चमात्सप्तमाच्चार्वागपि त्रिगोत्रान्तरिता विवाह्या ।

'असंबन्धा भवेन्मातुः पिण्डेनैवोदकेन वा ।
सा विवाह्या द्विजातीनां त्रिगोत्रान्तरिता च या'

 इति बृहन्मनूक्तेः ।

संनिकर्षेऽपि कर्तव्यं त्रिगोत्रात्परतो यदि'

 इति देवलोक्तेश्च" इति ।

 अस्योदाहरणम्--मूलपुरुषो यज्ञदत्तः १ तत्पुत्रो विष्णुदत्तः २ तत्पुत्रो रुद्रदत्तः ३ तत्पुत्रो ब्रह्मदत्तः ४ तत्पुत्रो हरदत्तः ५ तत्पुत्रो मित्रदत्तः ६ तत्पुत्रः शिवदत्तः ७ तत्पुत्रः श्रीदत्तः ८ इति वरविषये ।

 वधूविषये मूलपुरुषो यज्ञदत्तः १ तत्कन्या लक्ष्मी वासिष्ठा २ तत्कन्या सरस्वती नितुन्दगोत्रा ३ तत्कन्या गौरी कौण्डिन्या ४ तत्कन्या श्रीदत्तभक्ता ५ श्रीदत्तेनेयं विवाह्या । एतच्च दाक्षिणात्या न मन्यन्त इति नवीनाः ।

 वस्तुतस्तु--

"पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
क्रियापरा अपि हि ते विज्ञेयाः शूद्रतां गताः"

 इति निषेधवाक्यविरोधादिदमप्यापद्विषयमेवेति युक्तम् ।

 चतुर्विंशतिमते--

"असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने" इति ॥