पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१७

पुटमेतत् सुपुष्टितम्
[विवाहः]
४१३
संस्काररत्नमाला
(सापिण्ड्यनिर्णयः)
 

 सगोत्रा[१]विवाहे प्रायश्चित्तं स्मृत्यर्थसारे--

"इत्थं सगोत्रसंब[२]द्धविवाहविषये स्थिते ।
यदि कश्चिज्ज्ञानतस्तां कन्यामूढ्वोपगच्छति ॥
गुरुतल्पव्रताच्छुध्येद्गर्भस्तज्जोऽन्त्यतां व्रजेत् ।
भोगतस्तां परित्यज्य पालयेज्जननीमिव ॥
अज्ञानादैन्दवैः शुध्येत्रिभिर्गर्भस्तु क(का)श्यपः' इति ॥

 ऐन्दवानि चान्द्रायणानि । बहुवचनात्त्रीण्यधिकानि वा । क(का)श्यप इत्यत्र स गर्भः क(का)श्यपः कश्यपगोत्रो भवति ।"सर्वाः काश्यप्यः प्रजाः" इति श्रुतेरित्यर्थः ।

 एतदर्थमेव प्रवरज्ञानमावश्यकमित्युक्तं तेनैव--

"ज्ञातव्याः प्रवरा ब्रह्मसायुज्यश्रुतितोऽन्यथा ।
गुरुतल्पमहादोषचण्डालोत्पत्तिशङ्कया" इति ॥

 तिथितत्त्वे बौधायनः--

"सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्" इति ॥

 तस्यां प्रजोत्पादने प्रायश्चित्तमाह स एव--

"प्रजा जाता चेत्कृच्छ्राब्दपादं चरित्वा यन्म आत्मनो मिन्दाभू-
त्पुनरग्निश्चक्षुरदादित्येताभ्यां जुहुयात्" इति ॥

 एतच्चाज्ञानतः पूर्वममत्येत्युपक्रमात् । ज्ञानोत्तरं भोगे तां परित्यजेत् । कृच्छ्राब्दपादस्यैन्दवानां च शक्ताशक्तत्वेन व्यवस्था द्रष्टव्या । मत्या तु गुरुतल्पव्रताच्छुद्धिः ।

 सपिण्डायामपत्योत्पादने बृहद्यमः--

"सपिण्डापत्यदारेषु प्राणत्यागो विधीयते" इति ।

 अपत्ययुक्ता दारा अपत्यदाराः । सपिण्डाश्च ताश्च ताः (ते च ते ) तेषु ।

मण्डनोऽप्याह--

" सगोत्रायां प्रजां जातां चण्डालेषु विनिक्षिपेत् ।
गुरुतल्पव्रतं कृत्वा तां रक्षेज्जननीमिव ॥
उदूह्याज्ञानतस्तुल्यगोत्रां चान्द्रायणं चरेत् ।
परिणीतसगोत्रायामज्ञानाज्जनितः सुतः ॥
क(का)श्यपो न तु चण्डालः पितुः कृच्छ्राब्द[३]पाद[४]तः ।
मिन्दाहुती द्वे जुहुयाद्व्रतान्ते दीप्तपावके" इति ॥



  1. ख. ङ. त्रादिवि ।
  2. ख. ग. ड. बन्धवि ।
  3. ख.ङ. ब्दभेदकः । मि ।
  4. ग. घ. दकः । मि ।