उदूह्याज्ञानत इत्युत्तरवाक्येऽज्ञानत इति श्रवणात्पूर्वत्र ज्ञानत इत्यर्थतः सिध्यति । परिणीतसगोत्रायामित्यस्मिन्वाक्येऽप्यज्ञानादित्युक्त्या ज्ञाने तु गर्भश्चण्डाल एव पितुः प्रायश्चित्तं नास्त्येव किं तु मृतप्राय एव स इति सूचितं भवति । यवीयसीं वयसा वपुषा च न्यूनाम् । तच्च न्यूनत्वं विवाहकालकथने वक्ष्यामः । अरोगिणीमचिकित्स्यरोगरहिताम् । भ्रातृमतीं ज्येष्ठः कनिष्ठो वा भ्राता विद्यते यस्याः सा ताम् । अनेन पुत्रिकाकरणशङ्का निरस्यते ।
अत एव मनुः--
"यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । |
यस्याः पिता पुत्रिकाकरणाभिप्रायवानिति न ज्ञायेत तां नोपयच्छेत । यत्र तु नैवाऽऽशङ्का तामभ्रातृकामप्युपयच्छेतेत्यभिप्रायः । न विज्ञायेत वा पितेत्युक्तेर्वरेण सह संप्रतिपत्तिं विनाऽपि पितुः संकल्पमात्रात्कन्या पुत्रिका भवतीति गम्यते ।
अत एव गौतमः--
"अभिसंधिमात्रात्पुत्रिकेत्येकेषां तत्संशयान्नोपयच्छेदभ्रातृकाम्" इति । |
अभिसंधिगूढसंकल्पः ।
मनुरपि--
"अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । |
वरेण सह संप्रतिपत्तौ पुत्रिकाकरणं स्पष्टमेव विज्ञायते ।
सा च संप्रतिपत्तिर्वसिष्ठेन दर्शिता--
"अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । |
अयं च तद्दानमन्त्रः । अस्याश्च पुत्रिकायाः स्वपित्रादिभिः सह सापिण्ड्यसगोत्रत्वानिवृत्तिः ।
अत एव लौगाक्षिः--
"मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाः । |
तदेवं तात्पर्यम्--पुत्रिकां शङ्कमानः पुत्रार्थी भ्रातृमतीमेवोपयच्छेतेति । एतच्च कलौ निषिद्धं कलिवर्ज्ये पाठात् ।
असमानार्षगोत्रजामिति । समाने आर्षगोत्रे यस्य तज्जाता या न भवति