पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१९

पुटमेतत् सुपुष्टितम्
[विवाहः]
४१५
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः)
 

साऽसमानार्षगोत्रजा ताम् । ऋषेरिदमार्षं प्रवरः । असमानप्रवरजामसमानगोत्रजां चेत्यर्थः । यस्या वध्वा येन वरेण सह प्रवरैक्यं गोत्रैक्यं वा नास्ति सा वधूस्तेन सह विवाहमर्हति । क्वचिद्गोत्रभेदेऽपि प्रवरैक्यमस्ति । तद्यथा--वाधूलमौनमौकादीनां भिन्नगोत्राणां भार्गववैतहव्यसावे[१][२]सेति प्रवरस्यैक्यात् । तत्र विवाहप्रसक्तौ तद्व्यवच्छेदायासमानार्षजामित्युक्तम् । क्वचित्प्रवरभेदेऽपि गोत्रैक्यम् । तद्यथा--आङ्गिरसाम्बरीषयौवनाश्वेति मांधात्राम्बरीषयौवनाश्वेत्यत्राऽऽङ्गिरसमांधातृप्रवरभेदेऽपि यौवनाश्वगोत्रमेकम् । अतस्तत्र विवाहो मा भूदित्यसमानगोत्रजामित्युक्तम् ।


अथ गोत्रप्रवरनिर्णयः ।

तत्र बौधायनः--

"विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः ।
अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः ।
सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते" इति ।

 अत्रापत्यपदं केवलपुत्रापत्यपरं न भवति किंतु पौत्रादिपरमपि । अत एव पाणिनिः--' 'अपत्यं पौत्रप्रभृतिगोत्रम्" इत्याह ।

 ननु केवलभृगुगणेषु यस्कादिषु केवलाङ्गिरोगणेषु हरितादिषु च सप्तर्ष्यपत्यत्वाभावाद्गोत्रत्वं न स्यादिति चेन्न ।

"एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते ।
तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात्" ॥

 इति बौधायनोक्तपर्युदासानुपपत्त्या तत्सिद्धेः । प्राप्तिसंभावनायां हि पर्युदासो भवति । यथा यजतिषु ये यजामहं करोतीति सामान्यवाक्यादनूयाजेषु ये यजामहप्राप्तिसंभावनायां नानूयाजेष्वित्यनेनानूयाजव्यतिरिक्तेष्वित्येवं पर्युदासः क्रियते तथाऽत्रापीति । सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमिति सूत्रं तु न लक्षणप्रदर्शकं किंतु अयोगव्यावृत्तिमात्रप्रदर्शकमिति न पूर्वोत्तरसूत्रविरोधः । अत एव विज्ञानेश्वरमाधवमदनपारिजातादिषु गोत्रं वंशपरम्पराप्रसिद्धमित्युक्तम् ।

 उक्तं च भट्टपादैरपि--समानेऽपि ब्राह्मण्ये कुण्डिनोऽत्रिरितिस्मरणलक्षणं



  1. अत्र क. पुस्तकटिप्पण्यां वेतसेति पाठः ।
  2. ग. दतसे ।