पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४२२

पुटमेतत् सुपुष्टितम्
४१८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, भृगवः)
 

हानं स्यादधिकारात्' इत्यस्मिन्नधिकरणे मीमांसकास्तु त्रीन्वृणीत इत्ययमेव विधिः । एकं वृणीते द्वौ वृणीत इत्युभयमवयुत्यानुवादः । अन्यथा वाक्यभेदापत्तेः । न च त्रीन्वृणीत इत्यत्रापि वाक्यभेदतादवस्थ्याद्विधित्वासंभव इति वाच्यम् । विशिष्टविधाने वाक्यभेदाभावेन विधित्वसंभवात् । स्तुत्यर्थोऽयमेकं वृणीत इत्यादिरनुवादः । एकवरणद्विवरणे अप्रशस्ते अपि यदा कर्तव्ये तदा त्रिवरणस्य प्रशस्तस्य कर्तव्य[१]त्वं किमु वक्तव्यमिति स्तुतिः । चतुर्निषेधपञ्चातिक्रमनिषेधाभ्यामपि त्रित्वमेव स्तूयते, न च तयोर्निषेधो विधातव्यः । प्रसक्त्यभावादेव तदप्रवृत्तेः । चतुरादयोऽत्यन्तविलम्बकारित्वादप्रशस्ताः । त्रित्वं तु न तथेति प्रशस्तम् । तस्मात्कर्मण्यधिकुर्वन्यजमानस्त्रीनेवोच्चारयेन्न न्यूनं नाप्यधिकमिति तात्पर्यार्थ इत्याहुः ।

 एकार्षेयादीनामपि मनुवत्पक्षाश्रयणेनाधिकार इति तन्त्ररत्ने । असमानार्षगोत्रजामितियाज्ञवल्क्योक्तमविवाहप्रयोजकं समानप्रवरत्वापरपर्यायं समानार्षत्वं द्विविधमेकप्रवरसाम्यं द्वित्रिप्रवरसाम्यं चेति । तत्राऽऽद्यं भृग्वङ्गिरोगणव्यतिरितेषु । द्वितीयं भृग्वङ्गिरोगणेषु । तत्र पञ्चप्रवराणां त्रिप्रवरसाम्यं त्रिप्रवराणां द्विप्रवरसाम्यमविवाहप्रयोजकमिति मन्तव्यम् ।

"पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।
भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयेत्" इति वचनात् ॥

 शेषेष्वेकोऽपि प्रवरः समानश्चेत्तद्विवाहं वारयेदित्यर्थः ।

अथ प्रवरगणना ।

तत्राऽऽदौ भृगवः ।

तत्र सूत्रम्--

"भृगूनेवाग्रे व्याख्यास्यामो जामदग्न्या वत्सास्तेषां पञ्चार्षेयो भार्ग-
वच्यावनाप्नवानौर्वजामदग्न्येति जमदग्निवदुर्ववदप्नवानवच्च्यवनव-
द्भृगुवदिति त्र्यार्षेयमु हैके भार्गवौर्वजामदग्न्येति जमदग्निवदुर्व-
वद्भृगुवदित्येष एवाविकृतो जामाल्यैतिशायनविरोहितमाण्डव्या
वटमण्डुबैदरेतवाहप्राचीनयोग्यानामथाऽऽर्ष्टिषेणानां पञ्चार्षेयो
भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेत्यनूपवदृष्टिषेणवदप्नवानवच्चयवन-
वद्भृगुवदिति त्र्यार्षेयमु हैके भार्गवार्ष्टिषेणानूपेत्यनूपवदृष्टिषेणव-
वद्भृगुवदित्यथ वीतहव्या यास्कवाधूलमौनमौकरजतवाहास्तेषां
त्र्यार्षेयो भार्गववैतहव्यसावेदसेति सवेदोवद्वीतहव्यवभृगुवदि-



  1. क. ग. घ.व्यत्वे कि ।