अत्रातःशब्दो हेत्वर्थे । यतो 'भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामीति भृग्वङ्गिरसामादध्यात्' इति श्रुत्यैकस्मिन्नेव वाक्ये भृगुगोत्रिणामाधानमन्त्रं पूर्वमुक्त्वाऽनन्तरं गौतमादिगोत्रिणामाधानमन्त्र उक्तः । अतो हेतोरित्यर्थः । अङ्गिरसामिति निर्धारणे षष्ठी । अङ्गिरोगणानां मध्ये येऽयास्या गौतमा अङ्गिरसस्तेषां त्र्यार्षेयः प्रवरो भवतीत्यर्थः । अयास्या इति विशेषणमयास्य उद्गाता भवतीत्यत्र येऽयास्यगणपठितास्तेषामेव ग्रहणार्थम् । उतथ्या औशिजा वामदेवा इत्यादीनि गौतमविशेषणानि सांकर्यनिवारणार्थानि । अन्यत्स्पष्टम् । एषां सर्वेषां गौतमाङ्गिरसां परस्परमविवाहः । गौतमस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्प्रायेण द्वित्रिप्रवरसाम्याच्च ।
इति गौतमगोत्रप्रवरकाण्डम् ।
अथ भरद्वाजगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--“अथ भरद्वाजानां त्र्यार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजेति भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्येष एवाविकृतस्तु[१]थ्याग्निवेश्यौर्जयानानां सर्वेषां च स्तम्भस्तम्बशब्दानामथर्क्षाणां पञ्चार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति मतवचोवद्वन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमु हैक आङ्गिरसवान्दनमातवचसेति मतवचोवद्वन्दनवदङ्गिरोवदित्यथ द्व्यामुष्यायणानां कुलानां यथा शौङ्गशैशिरयो भरद्वाजाः शुङ्गाः कताः शैशिरयस्तेषां पञ्चार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षिलेत्यक्षिलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमु हैक आङ्गिरसकात्याक्षिलेत्यक्षिलवत्कतवदङ्गिरोवदित्यथ गर्गाणां त्र्यार्षेय आङ्गिरसगार्ग्यशैन्येति शिनिवद्गर्गवदङ्गिरोवदिति भारद्वाजमु हैकेऽङ्गिरसः स्थाने भारद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरद्वाजवदित्यथ कपीनां त्र्यार्षेय आङ्गिरसमाहाय्यवौरुक्षय्येत्युरुक्षय्यवन्महय्युवदङ्गिरोवदिति तरस्वास्तिलो विदुः शालुः पतञ्जलिर्भूयसी[२]र्दन्द्वकीर्जलन्द्वः कपेरष्टविधाः प्रजाः" इति ।
तु[३]त्थ्य आग्निवेश्य और्जयान एतेषां, स्तम्भशब्दो यन्नामसु वर्तते ते स्तम्भ