पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४२९

पुटमेतत् सुपुष्टितम्
[अगस्त्यप्रवरकाण्डम्]
४२५
संस्काररत्नमाला
(क्षत्त्रियादीनां गोत्रप्रवरनिर्णयः)
 

अथागस्त्यगोत्रप्रवरकाण्डम् ।

[तत्र सूत्रम्--]"अथागस्तीनामेकार्षेय आगस्त्येति होताऽगस्तिवदित्यध्वर्युस्त्र्यार्षेयमु हैक आगस्त्यदार्ढच्युतैध्मवाहेतीध्मवाहवद्दृढच्युतवदगस्तिवदिति" इति ।

अगस्तीनां सर्वेषां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।
इत्यगस्तिगोत्रप्रवरकाण्डम् ।


अथ क्षत्त्रियप्रवरकाण्डम् ।

[तत्र सूत्रम्--]"अथ क्षत्त्रियाणां त्र्यार्षेयो मानवैडपौरूरवसेति पुरूरवोवदिडवन्मनुवदित्यथ यदि ह सार्षाः प्रवृणीरन्नेक एवैषां प्रवरो यद्यु वै पृथक्प्रवृणीरन्येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्तेऽथ येषां स्युरपुरोहितप्रवरास्ते सपुरोहितप्रवरास्त्वेवं न्यायेनैकार्षेया विशो वात्सप्रेति होता वत्सप्रवदित्यध्वर्युः" इति ।

 द्विविधाः क्षत्रियाः सार्षा अनार्षाश्च । तत्र यदि सार्षा आर्षेयवन्तो राजानः प्रवृणीरंस्तदैषां प्रवर उक्त एक एव भवति । यद्येते पृथगेव प्रवृणीरन्पुरोहितप्रवरानेव प्रवृणीरन् । येषां राज्ञां मन्त्रकृत ऋषय आर्षेया इति यावत्, न स्युर्न भवेयुस्ते सपुरोहितप्रवरा ज्ञेयाः । येषां राज्ञां यदि मन्त्रकृतः स्युरपुरोहितप्रवरास्ते ज्ञेयाः । मन्त्रकृतो राजानः सपुरोहितप्रवरास्त्वेवमेतत्प्रकारेण न्यायेन भवन्ति नान्यथा । कोऽसौ न्यायोऽभिमतः । उच्यते-- सर्वेषां पुरोहितस्य विद्यमानत्वात्तेन च विना कर्मानधिकारात्पुर एनं हितमेतत्सर्वं नयतीति पुरोहितशब्दव्युत्पत्तेः । आत्मीयप्रवरपक्षे सर्वेषां समानप्रवरत्वादविवाहः प्रसज्येतेति न्यायः । अयमेव न्यायो वैश्यानामपि द्रष्टव्यः । ([१]मन्त्रकृ[२]द्वतां सर्वराज्ञामपुरोहितप्रवराणामपि विवाहमात्रे सपुरोहित[प्रवर]त्वमेवेति फलितोऽर्थः।) राजभ्योऽर्पितानां दत्तानां ब्राह्मणानां राज्ञां ये प्रवरास्त एव तेषाम् । एवं ब्राह्मणेभ्योऽर्पितानां राज्ञां ब्राह्मणानां ये प्रवरास्ते तेषामिति ।



  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके--"एवं च विवाहे क्षत्त्रियाणां वैश्यानां च पौरोहित्यप्रवरैक्यप्रयुक्त एव निषेधो न तु स्वप्रवरैक्यप्रयुक्त इति सिद्धम् । कर्मणि वरणादौ भवतु विकल्पः । उक्तसूत्रस्य कर्माधिकारे प्रवृत्तेः । सोऽपि व्यवस्थितः । एषां कुले यादृशं वरणमागतं तथैव कर्तुमुचितमिति विप्रेष्वपि व्यवस्थादर्शनात्" इति प्रन्थो वर्तते ।
  2. क. कृता ।