रयमभिप्रायो गम्यत इति चेत् । अन्यथा प्रवराध्यायानारम्भप्रसङ्गात् । आरभ्यते चायम् । अयं च प्रवरः श्रौतकर्मवरणाभिवादादिष्वेव न विवाहे । अन्यथा समानप्रवरत्वाद्विवाहाभावप्रसङ्गात् ।
पुरोहितगोत्रप्रवरयोराचार्यगोत्रप्रवरयोश्चाज्ञाने तु स्मृत्यन्तरे--
"आचार्यगोत्रप्रवरानभिज्ञस्तु द्विजः स्वयम् । |
अत्राऽऽचार्यग्रहणं पुरोहितोपलक्षणम् । आचार्यशब्देन निषेकादिक्रियाकर्ता द्विज इतिश्रवणाद्ब्राह्मणक्षत्त्रियवैश्यानां विधिः ।
यत्तु--'गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते' ।
इति तत्पुरोहिताचार्ययोर्गोत्राज्ञाने सत्येव विवाहातिरिक्तविषयम् ।
इति सूत्रोक्तः प्रवरनिर्णयः ।
अथ स्मृत्यनुसारेण प्रवरास्तद्गणाश्च ।
तत्र भृगवो द्विविधाः । जामदग्न्याः केवलाश्च । जामदग्न्यौ द्वौ, वत्सबिदौ । केवलाः षट् । वत्सा वैन्या वीतहव्या आर्ष्टिषेणा वाघ्र्यश्वा गार्त्समदा इति । तत्र द्विविधा अपि वत्सास्तत्त्रेणोच्य[१]न्ते । मार्कण्डेया माण्डूकेया माण्डव्याः कांसेया आले[२]खना दार्भायणाः शार्कराक्ष्या दैवतायना शौनकायना माधुकेयाः पार्षिकाः साकाः प्रा[३]त्तायनाः पैलाः पैङ्गलायना [४]दार्ध्वेपकयो बाह्यकयो वैश्वानरयो वैहीनरयो वैरोहिता बाह्या [५]ब्राध्रा गोष्ठायनाष्टीकयः काशकृत्स्ना वाद्भुतकाः कृतभागा ऐतिशायना ज्ञानायनाः पाणिनयो वा[६]ल्मीकिः स्थौलपिण्डायन: सैवातवा जिहीतयः सावर्णिकायना वालायनाः सौकृतयो मण्डवः सौविप्वयो हस्ताग्रहः शौद्धकयः शौ[७]र्द्वकयो वैकर्णा द्रोणकजिह्वय औरसयः कम्बलोदरयो वाकारकृतो वैहलयः साङ्कवाः कास्तम्बराः कारवास्तामसा विरूपाक्षा वृकाश्वा उच्चैर्मन्यवो द्वैमत्या आर्यायणाः पा[८]कायणाः काह्वायना वा[९]नयश्चायनिनः शार्ङ्गरवाश्चान्द्रमसा गाङ्गेया नौ[१०]धेया