पिण्डिकाक्षा मौदायनाः कापिशायनाः शाडेयाः साक्षिता मित्रयत आपिशायनाः पाटिकायना मित्रयुवो दिवोदासाः ।
इति वाघ्र्यश्वाः ।
मित्रयुव इति केचित् । दिवोदासा इत्यन्ये । एषामेको वाघ्र्यश्वेति । त्रयो वा, भार्गववाघ्र्यश्वदैवोदासेति [१] ।
गृत्स(गार्त्स?)मदानां गार्त्समदेत्येकः प्रवरः । वैन्यवीतहव्यवाघ्र्यश्वगार्त्समदानां स्वस्वगणं हित्वा परस्परं पूर्वैश्च सह विवाहो भवत्येव । द्वित्रि(त्र)प्रवरसाम्याभावात् ।
तदुक्तं स्मृत्यर्थसारे--
"यस्का मित्रयुवो वैन्याः शुनकाः प्रवरैक्यतः । |
अत्र यस्का मित्रयुवः शुनका इत्येकपक्षाभिप्रायम् । प्रवरैक्यतः स्वगणं हित्वेति संबन्धः । क्वचित्त्वधिकं गणद्वयमुक्तम् । वेदविश्वज्योतिषां त्रयः, भार्गववैदवैश्वज्योतिषेति । शाठरमाठराणां त्रयः, भार्गवशाठरमाठरेति । अनयोः परस्परं पूर्वैश्च विवाहः[२] ।
मण्डनोऽपि--
"जमदग्निर्भरद्वाजो विश्वामित्रोऽत्रिगौतमौ । |
इति परिभाषामुक्त्वाऽऽह--
" भृगूणां वीतहव्यात्प्राग्विवाहो न परस्परम् । |
इति भृगवः ।
अथाङ्गिरसः । (२)
ते त्रि[४]विधाः । गौतमा भारद्वाजाः केवलाश्च । तत्र गौतमाङ्गिरसः सप्त ।