पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४

पुटमेतत् सुपुष्टितम्
४०
[नान्दीश्राद्धविधिः]
भट्टगोपीनाथदीक्षितविरचिता--
(नान्दीश्राद्धकालः)
 

नान्दीश्राद्धविधिः ।

 अथाऽऽभ्युदयिकश्राद्धम् । तच्च गर्भाधानादिगर्भसंस्कारेषु जातकर्माद्यपत्यसंस्कारेषु श्रवणाकर्मादिषु वापीकूपतडागारामाद्युत्सर्गादिषु देवप्रतिष्ठायां व्रतोद्यापने वानप्रस्थाद्याश्रमस्वीकारे तुलापुरुषादिमहादानादौ नूतनगृहप्रवेशे काण्डव्रतेषु राजाभिषेके शान्तिकपौष्टिकेषु अग्न्याधानादिश्रौतकर्मणामुपाकर्मोत्सर्जनयोः पार्वणस्थालीपाकश्रवणाकर्मादीनां च प्रथमे प्रयोग उत्सवादौ च कार्यम् । व्रतोद्यापने दुष्टग्रहपीडादिनिवृत्त्यर्थशान्त्यादौ च नान्दीश्राद्धं न कार्यम् । शाकलकारिकासु निषेधस्योक्तत्वादिति केचित् ।बहुस्मृतिप्रामाणिकग्रन्थविरुद्धत्वान्नाऽऽदर्तव्यमेतदित्यन्ये । एतच्छ्राद्धं मातृकापूजनं चैकस्यानेकसंस्कारेष्वेककर्तृकेषु युगपदुपस्थितेषु सर्वादौ सकृदेव कार्यं न तु प्रतिसंस्कारमावृत्तिः । यथा दैवादकृतजातकर्मादिकस्योपनयनकाले जातकर्माद्यनुष्ठाने देशान्तरगतस्य मृतबुद्ध्या कृतौर्ध्वदेहिकस्याऽऽगतस्य पुनर्जातकर्मादिसंस्काराणां विहितानां युगपदनुष्ठाने कर्मनाशाजलस्पृष्टादीनां प्रायश्चित्तार्थत्वेन विहितानां पुनःसंस्काराणां युगपदनुष्ठाने वा ।

 तथा च ब्रह्मपुराणम्--

"गणशः क्रियमाणानां मातॄणां पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु" इति ॥

 ([१]बह्वपत्यानां युगपत्संस्कारकरणविषयमिदं वचनमिति बोपदेव आह । )
मातॄणां पूजनं सकृदितिपृथग्वचनादेवं ज्ञायते मातृपूजनं नान्दीश्राद्धस्यानङ्गमेव भवतीति । अतोऽस्मिन्कल्पे मातृकापूजनस्य पृथगेव संकल्पः ।

यत्र [२]यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः"

 इति पुराणान्तरवचनेनाङ्गत्वम् । अस्मिन्कल्पे न पृथक्संकल्पः ।

 अथैतत्कालः । कर्मारम्भाव्यवहितपूर्वतनदिने मातृपार्वणं कर्मारम्भदिने पितृपार्वणं कर्मसमाप्त्युत्तरदिने मातामहपार्वणम् । एवं कर्तुमशक्तौ कर्मारम्भाव्यवहितपूर्वतनदिनत्रये क्रमेण पार्वणत्रयं कार्यम् । प्रथमदिने मातृपार्वणं द्वितीयदिने पितृपार्वणं तृतीयदिने मातामहपार्वणमिति । एवं कर्तुमशक्तौ कर्मारम्भदिनात्पूर्वस्मिन्नहन्येव पूर्वाह्णे मातृपार्वणं मध्याह्ने पितृपार्वण


  1. धनुचिह्नान्तर्गतस्थाने ग. घ. पुस्तकयोः "स्मृत्यन्तरे--यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातर इति" एव वर्तते ।
  2. ग. ध यत्रेत्यने ।