पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४३९
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, अत्रयः(४))
 

महात्रेया गालेया वालेयाः शौभ्रेया वामरथ्याः श्वेतभावाः शौद्रेया गोपवनाः कालापचया नीलायना आनङ्गयो मानङ्गयो दौरङ्गयो सौरङ्गयो गौरङ्गयः पुष्पयः सौपुष्पयः साकेतायना भारद्वाजायना इन्द्रातिथयः शास्त्ररव आहायनाः पवनाशाः किकिदीवयः शौनककर्णयः सौश्रुतयो गौरग्रीवः कैर[१]ञ्जयो जैत्रा[२]यणाः श्वेकयो बाहुनेत्रा वा[३]हमित्रा जानुकयः पनञ्ज[४]नो भागमादनाः सांख्येयाः सारायणाः सौक्तचरा अर्घपथा गौधन्याः कालजिह्वा उद्गरग्रीवयो वैडालयः शाकलायना गौणीपथा ब[५]लदा[६][७]वपादा अर्घ्यायणा[८] बादर्यायणा माङ्गला बाहुदन्तयो भागले[९]योऽरुणात्रेया दत्ता[१०]त्रेयाः[११] शैस्वयः करायणा नीशायना दर्भ्या बुयादुला वामरथा वैश्वानकयः शोधूलकयो निकलाः ।

इत्यत्रयः ।

 तेषां त्रयः, आत्रेयार्चनानसश्यावाश्वेति ।

 गविष्ठिरा दक्षयो भलन्दना और्णनाभयश्चन्द्रात्रेया बैजवापयो मौञ्जकेशाः पूर्वातिथयः श्यामपुष्पयः शिलंदलयो ब्रह्मपुष्पयो[१२] वाघ्र्यपुष्पयः[१३] सौपुष्पयः कार्ष्णशायको हिरण्यपुष्पयः कालाक्षयः कालशीर्षयो ह्म[१४] क्षयो बलयो घृतयः पार्ष्णयः कटुकयो मैत्राण्याः[१५] शिरीषकाः ।

इति गविष्ठिराः ।

 तेषां त्रयः । आत्रेयार्चनानसगाविष्ठिरेति । आत्रेयगाविष्ठिरपौर्वातिथेति वा ।

 वाद्भुतकानां त्रयः । आत्रेयार्चनानसवाद्भुतकेति ।

 मुद्गलाः शालिसंधय आ[१६]र्णवा बौधाक्षा वैतवाहाः शिरीषयः शालिमता गौरिता गौरकयो वाजवताः ।

इति मुद्गलाः ।

 पूर्वातिथय इति केचित् ।

 तेषां त्रयः । आत्रेयार्चनानसपौर्वातिथे[१७]ति । क्वचित्त्चन्ये पञ्चाऽऽम्नाताः । अतिथयो वामरथ्याः सुमङ्गला बीजवापा धनंजयाश्चेति । आद्यानां चतुर्णामात्रेयार्चनानसातिथेति । आत्रेयार्चनानसगाविष्ठिरेति वा । सुमङ्गलानामात्रेयसुमङ्गलश्यावाश्वेति वा । धनंजयानामात्रेयार्चनानसधानंजय्येति । वाले[१८]या



  1. ड. रजयो ।
  2. ख. त्राणाः । ग. त्रायिणाः ।
  3. ख. त्वाहमित्राः ।
  4. ङ. ञ्जयो भा ।
  5. ख. ड वलदा ।
  6. ख दा अ ।
  7. ड. भगपा ।
  8. ख. णा वाद ।
  9. ख. लेपोऽरु । ग. लेया अरु ।
  10. ख. त्तात्रैयाः ।
  11. ड याः शोधू ।
  12. ड. यो व्याघ्र्य ।
  13. ख. यः का ।
  14. ङ. प्लक्षयः ।
  15. क. ग. ण्याः । इ ।
  16. ड. अर्णवाः ।
  17. क. ति । केचि ।
  18. ख. लेयाः कौ ।