पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४६

पुटमेतत् सुपुष्टितम्
४४२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, कश्यपाः(६))
 

 साहुला माहुला राहुलाः काहुलाः फा[१]गुला औमिला औ[२]दलाः शातातपाः कामलायनाः सातवव्रयो जातवयः ।

इति साहुलाः ।

 तेषां त्रयः । वैश्वामित्रसाहुलमाहुलेति ।
 गाथिना औद्दालकय उदवासा रौवश्वका आज्येद्वला रेणु[३]वाः ।
 इति गाथिनाः । रेणु[४]वा इति केचित् । उदवेणव इत्यन्ये । हर्यश्वा इत्यपरे ।
 तेषां त्रयः । वैश्वामित्रगाथिनरैणवेति । रेणुवेति क्वचित्पाठः ।
 वैणवानां त्रयः । वैश्वामित्रगाथिनवैणवेति ।
 हिरण्यरेतसां द्वौ । वैश्वामित्रहरैण्यरेतसेति ।
 सुवर्णरेतसां द्वौ । विश्वामित्रसौवर्णरेतसेति ।
 कपोतरेतसां द्वौ[५] । विश्वामित्रकापोतरेतसेति ।
 शा[६]लङ्कायनाः शालाक्षा लोहिताक्षा लोहिता जह्नवः ।

 इति शालङ्कायनाः । कौशिका वा । जह्नवो वा । तेषां त्रयः । वैश्वामित्रशालङ्कायनकौशिकेति ।
 घृतकौशिकानां द्वौ, विश्वामित्रघृतकौशिकेति ।
 कथकाः क्रथका आहू[७]घया उदूणयाः ।

इति कथकाः ।

 तेषां त्रयः । वैश्वामित्रकाथकक्राथकेति ।
 रोहिणानां त्रयः । वैश्वामित्रमाधुच्छन्दसरौहिणेति ।
 विश्वामित्रगणानां परस्परमविवाहः । सगोत्रत्वात्सप्रवरत्वाच्च ।

इति विश्वामित्राः ।

अथ कश्यपाः । (६)

 ते त्रयः । निध्रुवा रेभाः[८] शण्डिलाश्च ।

 निध्रुवाः कश्यपा अष्टाङ्गिरयो भ[९]ण्टरा[१०] ऐतिशायना आशून्या वैशिप्रा धूम्रा धूम्रायणाः सौम्या धम्यायणाः स्रौववृक्षा राग्रायणाश्चैवकयः प्रार्चयो हृद्रोगा आतपाः पाञ्चायनिका मेषान्तकयः सागसयो माघसरावयो वार्षकयः सैन्धवयः



  1. क. फणुलाः ।
  2. ड. ओदलाः ।
  3. ङ णुवः । इ ।
  4. ड. णुव इ ।
  5. ख. ग. द्वौ, वैश्वा ।
  6. क. ख. ग. शायङ्का ।
  7. ख. हृद्यया ।
  8. डः भाः शाण्डि ।
  9. ङ. मण्डरा ।
  10. ङ. रा एति ।