पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६२

पुटमेतत् सुपुष्टितम्
४५८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे मासादिनिर्णयः )
 

 गौर्यादिशब्दार्थो यमेन दर्शितः--

"अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला" इति ।

 संवर्तोऽपि--

"अष्टमे तु भवेद्गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ताऽत ऊर्ध्वं स्याद्रजस्वला" इति ॥

 देवलः--

"कुलशीलवयोवृत्तरूपाढ्यां नग्निकां शुभाम् ।
विधिना तु वरः कन्यामुद्वहेदात्मनः समाम् ॥
सप्ताब्दात्कन्यकानाम्नी शैशवी स्याच्छुभान्विता ।
तामष्टादशवर्षीयो विवहेद्विधिवत्पुमान् ॥
याऽष्टवर्षा भवेद्गौरी पुत्रपौत्रप्रवर्धिनी ।
पञ्चविंशतिवर्षीयस्तां कन्यामुद्वहेद्द्विजः ॥
रोहिणी नववर्षा स्याद्धनधान्यविवर्धिनी ।
तामुद्वहेत मतिमान्सर्वकामार्थसिद्धये ॥
ऊर्ध्वं दशाब्दाद्या कन्या प्राग्रजोदर्शनात्तु सा ।
गांधारी स्यात्समुद्वाह्या चिरं जीवितुमिच्छता" इति ॥

इति विवाहकालः ।

अथ विवाहे मासादिनिर्णयः ।

 तत्र मासा उक्ता वात्स्येन--

"माघमासे भवेद्व्यूढा कन्या सौभाग्यसंयुता ।
फाल्गुनोढा भवेत्साध्वी वैशाखे पूत्रिणी भवेत् ॥
धर्मयुक्ता भवेज्ज्येष्ठे धनिनी कार्तिके भवेत् ।
देवपूजारता नित्यं मासे स्यात्सोमदेवते" इति ॥

 धनिनी स्वातन्त्र्येण धनसंग्रहवती । नित्यमित्यनेन भर्त्रादिशुश्रूषाव्यावृत्तिः सूच्यते । सोमदेवतो मार्गशीर्षः ।

 मदनरत्ने नारदः--

"माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ।
कार्तिको मार्गशीर्षश्च मध्यमावितरेऽधमाः ॥
न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात् ।
विवाहदेवतानां च प्रतिष्ठां चोपनायनम्" इति ॥