पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६४

पुटमेतत् सुपुष्टितम्
४६०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे मासादिनिर्णयः )
 

मासानां सूत्रोक्तानां मासानां च परस्परविरोधाद्देशाचाराद्व्यवस्था । सूत्रे विहितानां श्रावणादीनां त्वासुरादिविषयत्वं द्रष्टव्यम् । देशाचाराद्व्यवस्था ।

चण्डेश्वरः--

"मार्गे मासि तथा ज्येष्ठे क्षौरं परिणयो व्रतम् ।
ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् ॥
कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत्" इति ।
"ज्येष्ठमास्याद्यपुत्रस्य शुभं वर्जं स्त्रिया अपि" ।

 इतिनिषेधो वधूवरयोरन्यतरज्येष्ठत्वे न प्रवर्तते ।

"ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते ।
तयोरन्यतरे ज्येष्ठे ज्येष्ठमासः प्रशस्यते ॥
द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठं सुखावहम् ।
ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम्" इति मिहिरोक्तेः ॥

 ज्येष्ठा कन्या ज्येष्ठो वरो ज्येष्ठमास इति ज्येष्ठत्रयम् । ज्येष्ठानक्षत्रेणापि ज्येष्ठत्रयम्, ज्येष्ठानक्षत्रं ज्येष्ठो मासो ज्येष्ठा कन्या वरो वा ज्येष्ठ इत्येवं वा ज्येष्ठत्रयम् । ज्येष्ठचतुष्टये ज्येष्ठत्रयस्य सद्भावान्निषेधप्रवृत्तिरस्त्येव । ज्येष्ठस्य वरस्य ज्येष्ठकन्यायाश्च ज्येष्ठमासे विवाहो न प्रशस्यते । तयोर्मध्येऽन्यतरज्येष्ठत्वे तु प्रशस्यत इत्यर्थः ।

 नारदः--"जन्ममासे च जन्मर्क्षे न जन्मदिवसेऽपि च । आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः" इति ॥

 करग्रहो विवाहः ।

आश्वलायनः--

"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपन-
यनगोदानविवाहाः सार्वकालमेके विवाहम्" इति ।

 कल्याणं ज्योतिःशास्त्राविरोधीति वृत्तिकृत् ।

 ज्योतिर्निबन्धे--

"सार्वकालिकमिच्छन्ति विवाहं गौतमादयः" इति ।

 एतच्च सार्वकालिकत्वमासुराद्यधर्म्यविवाहविषयमिति केचित् । आसन्नर्तुकालकन्याविषयमित्यन्ये ।

कात्यायनः--"उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात्" इति ।

 नारदः--"शुक्लपक्षं प्रशंसन्ति विवाहे गौतमादयः" इति ।

 अत्र शुक्लपक्षप्राशस्त्योक्त्याऽसंभवे कृष्णपक्षस्यापि ग्रहणमिति सूच्यते ।