अथ नक्षत्राणि ।
तत्र--"अह्नः पञ्चसु कालेषु प्रातः संगवे म[१]ध्यंदिनेऽपराह्णे सायं वैतेषु यत्कारी स्यात्पुण्याह एव कुरुते" इत्येतत्सूत्रव्याख्यानावसरे मातृदत्तः--
"पुण्यानि तिथिवारनक्षत्राणि कालज्ञानविहितान्युपादेयानि प्रदर्शनार्थत्वाच्चैतस्य विधानस्येति । नक्षत्रेष्वपि यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । यत्पुण्यं नक्षत्रम् । तद्वट्कुर्वीतोपव्युपमित्यादिश्रुतेश्च देवनक्षत्राणि ज्योतिःशास्त्रविहितविवाहनक्षत्राविरोधीनि प्रशस्तानि द्रष्टव्यानि । देवस्य सवितुरिति प्रकृत्यसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणीति श्रुतेष्वन्तरालेषु चतुरोऽश्लीलान्कालान्रात्रिं च वर्जयित्वा यत्कर्तव्यं कर्म तत्कर्तुं शीलं यस्य स यत्कारी सर्वाणि कर्माणि तेष्वेव कालेषु कर्तव्यानीत्यर्थः । स पुण्याह एव प्रशस्त एव दिने कुरुते । तत्र प्रागुदयादेका नाडिकोर्ध्वं चैका प्रातरित्युच्यते । प्राक्प्रथमाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका स संगवः । प्राग्द्वितीयाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका स मध्यंदिनः । प्राक्तृतीयाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका सोऽपराह्णः । प्रागस्तमयादेका नाडिकोर्ध्वं चैका स सायम् । अयं सर्वकर्मणां कालो न विवाहस्यैव । यत्कारीतिवचनाद्धोराणामेवायं विकल्प इति वाशब्दो ज्योतिर्ज्ञानप्रसिद्धकालविकल्पार्थः" इति व्याख्यातवान्[२] ।
चतुर्थो भागश्चतुर्भागः । अह्नश्चतुर्भागोऽहश्चतुर्भागः । प्रथमश्चासावहश्चतुर्भागश्च प्रथमाहश्चतुर्भागः । प्रथमाहश्चतुर्भागस्यान्तः प्रथमाहश्चतुर्भागान्तः । तस्मात् । इत्येवं समासः । एवमग्रेऽपि[३] ।
आपस्तम्बो विवाहं प्रकृत्याऽऽह--
"सर्वाणि पुण्योक्तानि नक्षत्राणि" इति । |
यानि ज्योतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि तानि ग्राह्याणि । नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यपि पुण्योक्तानि सर्वाण्युपसंहर्तव्यानीति सुदर्शनेन व्याख्यातम् ।
आश्वलायनोऽपि--"कल्याणे नक्षत्रे" इति ।