पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६९

पुटमेतत् सुपुष्टितम्
[विवाहः]
४६५
संस्काररत्नमाला
( विवाहे ग्रहबलम् )
 

 ज्योतिर्निबन्धे--

"प्रायेण सर्वत्र विलोकयन्ति चान्द्रं बलं गोचरतो विशुद्धम् ।
लोके यतश्चन्द्रबलं प्रधानं शास्त्रेषु मुख्यं खलु लग्नमेव ॥

एकतस्तु ग्रहाः सर्वे एकतः शशलाञ्छनः ।
ततोऽधिकतरश्चन्द्रस्तस्माच्चन्द्रं परीक्षयेत्" इति ॥

 ततस्तस्मात् ।

बृहस्पतिः--

"झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः ।
अतिशोभनतां दद्याद्विवाहोपनयादिषु" इति ॥

 लल्लः--

"द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीये च ।
प्राप्ते पाणिग्रहणे जीवे वैधव्यमाप्नोति" इति ॥

 गर्गः--

"सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः ।
पञ्चषष्ठाब्दयोरेव शुभगोचरता मता ॥
सप्तमात्पञ्चवर्षेषु स्वोच्चस्वर्क्षगतो यदि ।
अशुभोऽपि शुभं दद्याच्छुभदर्क्षेषु किं पुनः ॥
रजस्वलायाः कन्याया गुरुशुद्धिं न चिन्तयेत् ।
अष्टमेऽपि प्रकर्तव्यो विवाहस्त्रिगुणार्चनात् ॥
अर्कगोर्बलं गौर्या रोहिण्यर्कबला स्मृता ।
कन्या चन्द्रबला प्रोक्ता वृषली लग्नतोबला" इति ॥

 मदनरत्ने गर्गः--

"चन्द्रताराबलं मुख्यं दंपत्योः पाणिपीडने ।
मुख्यं गुरुबलं वध्वा वरस्येष्टं रवेर्बलम्" इति ॥

 विवाहे मुख्यकाले तयोर्बलालाभे पूजा कार्या ।

"विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः ।
चेत्पूजां यत्नतः कुर्याद्दुर्बलप्रदता तयोः" ।

 इति तत्रैव नारदोक्तेः । चेदित्यस्य दुर्बलेत्यत्रान्वयः ।

 गुरुपूजाप्रकारं तु शान्तिरत्नमालायां वक्ष्यामः । रवेरपि पूजां तत्रैव ।

 लल्लः--

"बृहस्पतौ शोभनगोचरस्थे विवाहमिच्छन्ति हि दाक्षिणात्याः ।
रवौ शुभस्थे प्रवदन्ति गौडा न गोचरा मालवके प्रमाणम्" इति ॥

५९