पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७०

पुटमेतत् सुपुष्टितम्
४६६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे ग्रहबलम् )
 

 ज्योतिर्निबन्धे वृद्धगार्ग्यः--

"मीने धनुषि सिंहे च स्थिते सप्ततुरंगमे ।
क्षौरमत्र न कर्तव्यं विवाहं गृहकर्म च" इति ॥

 सप्ततुरंगमः सूर्यः ।

ज्योतिर्ग्रन्थे--

"सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् ।
सिंहस्थेऽपि मघासंस्थं गुरुं यत्नेन वर्जयेत् ॥
अन्यत्र सिंहभागे तु विवाहादि विधीयते" इति ।

 लल्लः--

"नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे ।
गण्डक्याः पश्चिमे तीरे मकरस्थो न दोषभाक्" इति ॥

 [१]राशरः--

"गोदाभागीरथीमध्ये नोद्वाहः सिंहगे गुरौ ।
मघास्थे सर्वदेशेषु तथा मीनगते रवौ" इति ॥

कालनिर्णये--

"शान्तिकं पौष्टिकं यात्राप्रतिष्ठोद्वाहपू[२]र्वकम् ।
न कुर्यात्सर्वमाङ्गल्यं सिंहस्थे च बृहस्पतौ" इति ।

 माण्डव्यः--

"इष्टापूर्तं च चौलादिसंस्कारा वास्तुकर्म च ।
अन्यानि शुभकर्माणि न कुर्यात्सिंहगे गुरौ" इति ।

 ज्योतिर्निबन्धे--

"सिंहे गुरौ सिंहनवांशकोर्ध्वं गोदावरीदक्षिणकूलजातैः ।
उद्वाहकालात्ययदोषभीतैः कार्यो विवाहश्च्यवनो ब्रवीति" इति ।

ज्योतिःसंग्रहे--

"मागधे गौडदेशे च सिन्धुदेशे च कोङ्कणे ।
व्रतं चूडां विवाहं च वर्जयेन्मकरे गुरौ" इति ।

 मकरस्थतायां विवाहे विशेषो देवीपुराणे--

"मकरस्थो यदा जीवो वर्जयेत्पञ्चमांशकम् ।
शेषेष्वपि च भागेषु विवाहः शोभनो मतः" इति ।

 एवं गुरोः सिंहस्थत्वेऽपि विवाहविषये विशेषमाह राजमार्तण्डः--

"सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः ।
सर्वदेशेष्वयं त्याज्यो दंपत्योर्निधनप्रदः" इति ।



  1. ड. पाराशरः ।
  2. क. ग. पूर्वक ।