पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७१

पुटमेतत् सुपुष्टितम्
[विवाहः]
४६७
संस्काररत्नमाला
( सापवादः सिंहस्थनिषेधः )
 

 सिंहांश इत्यत्र नवांशक्रमेण सिंहांशो बोध्यः ।

 अत एव--"सिंहेऽपि भगदैवत्ये गुरौ पुत्रवती भवेत्" इत्युक्तम् ।

 भगदैवत्यं पूर्वे फल्गुन्यौ । भगदैवत्यप्रथमपादस्य सिंहांशत्वेन परित्याज्यत्वात्तद्व्यतिरिक्तं भगदैवत्यं ग्राह्यम् ।

 तथा[१] च माण्डव्यः--

"मघा(घ)ऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् ।
तत्राब्दे कन्यका चोढा सुभगा सुप्रिया भवेत्" इति ।

 अत्रैतैर्वचनैः सिंहस्थगुरौ मघानक्षत्रपरित्यागेन यत्परिणयनं प्रतिपादितं तन्माघ्यां पौर्णमास्यां तद्वर्षे मघानक्षत्राभावे बोध्यम् । अन्यथा सिंहे गुरौ परिणीतेतिवक्ष्यमाणवचनेन विरोधः स्यादिति ।

 तथा च ज्यौ[२]तिषे--

"गुरौ हरिस्थे न विवाहमाहुर्हारीतगर्गप्रमुखा मुनीन्द्राः ।
मघायुता स्याद्यदि नैव माघी तदा च कन्योद्वहनं वदन्ति" इति ॥

 तथा--"माघ्यां य[३]दा मघा न स्युः सिंहे गुरुरकारणम्" इति ।

 अकारणं विवाहेऽनिषेधक इत्यर्थः ।

 अत एव--

"सिंहे गुरौ परिणीता पतिमात्मानमात्मजान्हन्ति ।
क्रमशस्त्त्रिषु पित्रादिषु वसिष्ठगर्गादयः प्राहुः"

 [४]इत्यादि राजमार्तण्डादौ मघादिनक्षत्रत्रयेऽपि विवाहे प्रोक्तो दोषोऽविरुद्धतयासंगच्छत इति विभावनीयम् ।

 अत्र च गोदावर्युत्तरतीरमारभ्य भागीरथीदक्षिणकुलं मर्यादीकृत्य यो गोदावरीभागीरथ्योरन्तरालवर्ती देशस्तत्रैव सिंहस्थो गुरुर्वर्ज्य इत्याह लल्लः--

"गोदावर्युत्तरतो यावद्भागीरथ्यास्त(थीत?)टं याम्यम् ।
तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये" इति ॥

 अर्थाद्गोदावरीदक्षिणतटे भागीरथ्युत्तरदेशे च विवाहे सिंहस्थगुरुदोषो नास्तीति ।

 तथा च वसिष्ठः--

"भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा ।
विवाहो व्रतबन्धो वा सिंहस्थेज्ये न दुष्यति" इति ॥



  1. क.ख. ग. था मा ।
  2. ग. ड. ज्योतिषे ।
  3. क.ख. यदि ।
  4. क्रियाविशेषणम् ।